2026-02-12 06:55:49 by ambuda-bot

This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
५९
 
अं अज्जउत्तेण उवलद्धं ति । अण्णहा दुक्खभाइणीए एवं ण
करीअदि ।
 
विदूषकः- मां तावदा तत्तभवदो दक्खिण्णस्स उअरोहं भणिदं
समावत्तिदिट्टेण देवीए परिअणेण संकहाअवराहेण संधावीअदु ।
एत्थ तुमं एव पमाणं ।
 
इरावती - संकहा णाम होदु । किंति अत्ताणं आआ-
सइस्सं । ( इति रुषा प्रस्थिता । )
 
राजा - ( अनुसरन् ।) प्रसीदतु भवती ।
 
( इरावती रशनासंधारितचरणा व्रजत्येव । )
 
राजा - सुन्दरि, न शोभते प्रणयिनि जने निरपेक्षता ।
इरावती-सैट, अविस्ससणी अहि अओसि ।
 
राजा-
 
शठ इति मयि तावदस्तु ते
 
परिचयवत्यवधीरणा प्रिये ।
 
चरणपतितया न चण्डितां
 
विसृजसि मेखलयापि याचिता ॥ २० ॥
 
इरावती - इअं पिहदासा तुमं एव अणुसरदि । ( इवि राना-
मादाय राजानं ताडयितुमिच्छति । )
 
१. मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन
देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् ।
२. ननु संकथा नाम भवतु । किमित्यात्मानमायासयिष्यामि ।
३. शठ, अविश्वसनीय हृदयोऽसि ।
 
४. इयमपि हताशा त्वामेवानुसरति ।
 
अन्यथा दुःखभागिन्यैवं न क्रियते ॥ विश्वसनीय इत्यत्र विपरीतलक्षणानुसंघेया ॥
मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन देव्याः परिजनेन
संकथापराधेन संघाप्यताम् । अत्र त्वमेव प्रमाणम् ॥ ननु संकथा नाम भवतु ।
किमित्यात्मानमायासयिष्यामि ॥ शठ, अविश्वसनीयहृदयोऽसि ॥ शठ इत्यादि ।
हे प्रिये, परिचयवति परिचयः संस्तवो यस्य स परिचयवान् । अतिशायने मतुप् ।