2026-02-12 06:55:48 by ambuda-bot

This page has not been fully proofread.

,
 
५८
 
मालविकाग्निमित्रे
 
इरावती - बउलावलिए, तुए साहु उवक्कन्तं । दाणिं सफलन्भ-
त्थणं करेहि उज्जउत्तं ।
 
उभे - पेसीददु भट्टिणी । काओ अहो भत्तुणो पणअपरिग्ग-
हस्स । ( इति निष्क्रान्ते ।)
 
इरावती - अविस्सणीआ पुरिसा । अतणो वचणत्रअणं
पमाणीकरिअ अक्खित्ताए वाहजणगीद्गहीदचित्ताए विअ हरिणीए
एदं ण विणादं ।
 
विदूषकः– (जनान्तिकम् ।) पेंडिजोएहि दाणि किंपि । कम्म-
महीदेण वि कुम्भीलएण संधिच्छेदे सिक्खिओम्मित्ति वत्तवं होदि ।
राजा - सुन्दरि, न मे मालविकया कश्चिदर्थः । मया त्वं चि-
रयसीति यथाकथंचिदात्मा विनोदितः ।
 
इरावती - विस्ससणीओसि । मए ण विष्णादं ईरिसं विणोदव-
१. बकुलावलिके, त्वया साधूपक्रान्तम् । इदानीं सफलाभ्यर्थनं कु-
वीर्यपुत्रम् ।
 
२. प्रसीदतु भट्टिनी । के आवां भर्तुः प्रणयपरिग्रहस्य ।
 
३. अविश्वसनीयाः पुरुषाः । आत्मनो वञ्चनावचनं प्रमाणीकृत्या-
क्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्यैतन्न विज्ञातम् ।
 
४. प्रतियोजयेदानीं किमपि । कर्मगृहीतेनापि कुम्भीलंकेन संधिच्छेद
शिक्षितोऽस्मीति वक्तव्यं भवति ।
 
५. विश्वसनीयोऽसि । मया न विज्ञातमीदृशं विनोदवस्तुकमार्यपुत्रेणोप-
लब्धमिति । अन्यथा दुःखभागिन्यैवं न क्रियते ।
 
त्वया साधूपक्रान्तम् । इदानीं सफलाभ्यर्थनं कुर्वार्यपुत्रम् ॥ प्रसीदतु भट्टिनी :
के आवां भर्तुः प्रणयपरिग्रहस्य ॥ अविश्वसनीयाः पुरुषाः । आत्मनो वञ्चना-
वचनं प्रमाणीकृत्याक्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्येवैतन्न विज्ञा-
तम् । एतदित्यनेन राज्ञा कृतं कपटकृत्यं परामृश्यते प्रतियोजयेदानीं किमपि :
संघेः कृत्रिमभूसंघेरछेदे भेदने । सुरङ्गाकरण इत्यर्थः । शिक्षितः अभ्यसितोऽस्मीति
वक्तव्यं भवति । किमपि प्रतियोजय । उपपन्नमनुपपन्नं वा उत्तरं कुर्वित्यर्थः ।
विश्वसनीयोऽसि । मया न विज्ञातमीदृशं विनोदवस्तुकमार्यपुत्रेणोपलब्धमिति ।