2026-02-12 06:55:48 by ambuda-bot

This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
इरावती - अहो णवणीदक पहिअओ अज्जउत्तो ।
 
५७
 
मालविका – बैउलावलिए, एहि । अणुचिट्टिदं अत्तणो णि-
ओअं देवीए णिवेदेा ।
 
बकुलावलिका – विणावेहि भट्टारं विसज्जेद्दित्ति ।
 
-
 
राजा - भद्रे यास्यसि । मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् ।
बकुलावलिका - अवहिदा सुणाहि । आणवेदु भट्टा
राजा-
 
धृतिपुष्पमयमपि जनो बध्नाति न तादृशं चिरात्प्रभृति ।
स्पर्शामृतेन पूय दोहदमस्याप्यनन्यरुचेः ॥ १९ ॥
 
इरावती - ( सहसोपसृत्य । ) पूँरेहि पूरेहि । असोओ कुसुमं ण
मेदि । अअं उण पुप्फदि एव ।
 
(सर्वे इरावतीं दृष्ट्वा संभ्रान्ताः । )
 
राजा - (अपवार्य ।) वयस्य, का प्रतिपत्तिरत्र ।
विदूषकः किं अण्णं । जङ्घाबलं एव ।
 
१. अहो नवनीतकल्पहृदय आर्यपुत्रः ।
 
२. बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः ।
३. विज्ञापय भर्तारं विसर्जयेति ।
 
४. अवहिता श्रृणु । आज्ञापयतु भर्ता ।
 
५. पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं पुनः पुष्प्यत्येव ।
६. किमन्यत् । जङ्घाबलमेव ।
 
पटोऽर्थः । अत्र प्रसक्त्या संग्रहो नाम संध्यङ्गमुक्तं भवति ॥ अहो नवनीतकल्प-
दय आर्यपुत्रः ॥ बकुलावलिके, एहि । अनुष्टितमात्मनो नियोगं देव्यै निवे-
यावः ॥ विज्ञापय भर्तारं विसर्जयेति ॥ अवहिता शृणु । आज्ञापयतु भर्ता ॥
प्रतिपुष्पेति । स्पष्टोऽर्थः ॥ पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं
{नः पुष्प्यत्येव । अत्र संरब्धवचनात्तोटकं नाम संध्यङ्गमुक्तं भवति ॥ वयस्येत्या-
दे । का प्रतिपत्तिः को विचारः । क उपाय इत्यर्थः । अत्र भीतेर्गम्यमानार्थ-
बागो नाम संध्यङ्गमुक्तं भवति ॥ किमन्यत् । जङ्घाबलमेव ॥ बकुलावलिके,