2026-02-12 06:55:47 by ambuda-bot

This page has not been fully proofread.

५६
 
मालविकाग्निमित्रे
 
विदूषकः - बउलावलिए, गहीदत्थाए तुए अत्तहोदी ईरिसं
अविण करन्ती कीस ण णिवारिदा ।
 
( मालविका भयं रूपयति । )
 
निपुणिका – भेट्टिणि पेक्ख । किं पउत्तं अज्जगोदमेण ।
इरावती - हं खु बह्मबन्धु अण्णा होदि ।
 
बकुलावलिका - अज्ज एसा देवीए णिओअं अणुचिहृदि ।
एदस्सि अदिकमे परवदी इअं । पसीददु भट्टा । ( इत्यात्मना सहनां
प्रणिपातयति ।)
 
राजा - यद्येवमनपराधासि । उतिष्ठ भद्रे । ( इति हस्तेन गृहीत्व-
नामुत्थापयति । )
 
विदूषकः - जैज्जइ । देवी एत्थ माण दवा ।
 
-
 
राजा-
 
किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे ।
चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥
( मालविका लज्जां रूपयति । )
 
१. बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न
निवारिता ।
 
२. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ।
 
३. कथं खलु ब्रह्मबन्धुरन्यथा भवति ।
 
४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव-
तीयम् । प्रसीदतु भर्ता ।
 
५. युज्यते । देव्यत्र मानयितव्या ।
 
या ॥ अहो, भर्ता ॥ बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं
कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकथनात्संभ्रमणं नाम
संध्यङ्गमुक्तं भवति ॥ भट्टिनि पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म-
बन्धुरन्यथा भवति ॥ आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परवती-
यम् । प्रसीदतु भर्ता ॥ युज्यते । देव्यत्र मानयितव्या ॥ किसलयेत्यादि ।