2026-02-12 06:55:46 by ambuda-bot

This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
५५
 
बकुलावलिका – हेला, णत्थि दे दोसो । णिग्गुणो अअं असो-
ओ जइ कुसुमोन्भेदमन्धरो हवे, जो दे चलणसक्कारं लम्भि ।
 
राजा-
 
अनेन तनुमध्यया मुखरनूपुराराविणा
 
नवाम्बुरुह कोमलेन चरणेन संभावितः ।
अशोक यदि सद्य एव मुकुलैर्न संपत्स्यसे
 
वृथा वहसि दोहदं ललितकामिसाधारणम् ॥ १७ ॥
 
सखे, वचनानुसरणपूर्वकं प्रवेष्टुमिच्छामि ।
 
विदूषकः - ऐहि । णं परिहासइस्सं ।
 
1
 
(उभौ प्रवेशं कुरुतः । )
 
निपुणिका - भट्टिणि भट्टिणि, भट्टा एत्थ पविसदि ।
इरावती - एवं पुढमं मम चिन्तिदं हिअएण ।
 
विदूषकः - ( उपेत्य ।) जुत्तं णाम अत्तहोदो पिअवअस्सो 'अ
असोओ णं वामपादेण ताडितुं ।
 
उभे – (ससंभ्रमम् ।) अम्हो, भट्टा ।
 
१. सखि, नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोदम-
न्थरो भवेत्, यस्ते चरणसत्कारं लब्ध्वा ।
 
२. एहि । एनां परिहासयिष्यामि ।
३. भट्टिनि, भट्टिनि, भर्तात्र प्रविशति ।
 
४. एवं प्रथमं मम चिन्तितं हृदयेन ।
 
५. युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन
नाडयितुम् ।
 
६. अहो, भर्ती ।
 
नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदमन्थरो भवेत्, यस्ते चरणस-
स्कारं लब्ध्वा ॥ अनेनेत्यादि । स्पष्टोऽर्थः ॥ एहि । एनां परिहासयिष्यामि ॥ भट्टिनि
भट्टिनि भर्ता प्रविशति ॥ एवं प्रथमं मम चिन्तितं हृदयेन ॥ युक्तं नाम अत्रभवतः
प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । 'जुतं णाम' इत्यत्र काकुरनुसं-