2026-02-12 06:55:45 by ambuda-bot

This page has not been fully proofread.

५४
 
मालविकाग्निमित्रे
 
इरावती - मुदो देवीए णिओओ । होदु दाणिं ।
बकुलावलिका —— ऐसो उवारूढराओ उअभोअक्खमो पुरदो
 
देव ।
 
मालविका - ( सहर्षम् ) किं भेट्टा ।
 
बकुलावलिका - ( सस्मितम् ) ण दाव भट्टा । एसो असोअसा-
हावलम्बि पल्लवगुच्छओ । ओदंसेहि णं ।
 
विदूषकः—सुंदं भवदा ।
 
राजा - सखे, पर्याप्तमेतावता कामिनाम् ।
 
अनातुरोत्कण्ठितयोः प्रसिद्ध्यता
समागमेनापि रतिर्न मां प्रति ।
परस्परप्राप्तिनिराश योर्वरं
 
शरीरनाशोऽपि समानुरागयोः ॥ १५ ॥
 
( मालविका रचितवावतंसा पादमशोकाय प्रहिणोति ।)
राजा - वयस्य,
 
आदाय कर्णकिसलयमस्मादियमत्र चरणमर्पयति ।
उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ १६ ॥
 
१. श्रतो देव्या नियोगः । भवत्विदानीम् ।
 
२. एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते ।
 
३. किं भर्ता ।
 
४. न तावद्भर्ता । एषोऽशोकशाखावलम्बी पल्लवगुच्छः । अवतं-
सयैनम् ।
 
५. श्रुतं भवता ।
 
मनुतिष्ठ ॥ श्रुतो देव्या नियोगः । भवत्विदानीम् ॥ एष उपारूढराग उपभोगक्षमः
पुरतस्ते वर्तते ॥ किं भर्ता ॥ न तावद्भर्ता । एषोऽशोकशाखावलम्बी पलवगुच्छ ः ।
अवतंसयैनम् ॥ श्रुतं भवता ॥ अनातुरेत्यादि । अनातुरोत्कण्ठितयोः । अना-
तुरोऽनाः । उत्कण्ठितः कामोत्कण्ठित इत्यर्थः । प्रसिद्ध्यता संभवता समागमे-
नापि संपर्केणापि मां प्रति मामनु । मत्पक्ष इत्यर्थः । रतिर्न शृङ्गारो= भवति ।
एकानुरागस्य रसाभासत्वात् । तथा चोक्तम्- 'एकत्रैवानुरागश्चेद्बहुसक्तिश्च योषितः ।
अनौचित्यप्रवृत्तिश्च शृङ्गाराभास उच्यते ॥' इति । शेषं स्पष्टम् ॥ आदायेत्यादि ।
कर्णकिसलयं कर्णपूरार्थं किसलयम् । अत्र कर्णशब्देन कर्णपूरो लक्ष्यते ॥ सखि,