2026-02-12 06:55:45 by ambuda-bot

This page has not been fully proofread.

-
 
-
 
तृतीयोऽङ्कः ।
 
मालविका —तुमं दाव दुज्जादे अच्चतं सहाया होहि ।
बकुलावलिका – विद्दरही बउलावलिआ खु अहं ।
राजा - साधु बकुलावलिके, साधु ।
भावज्ञानानन्तरं प्रस्तुतेन
 
प्रत्याख्याने दत्तयुक्तोत्तरेण ।
वाक्येनेयं स्थापिता खे निदेशे
 
५३
 
स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥
इरावती - पेक्ख । कारिदं एवं बउलावलिआए एदं पदं
मालविआए ।
 
निपुणिका – भट्टिणि अहिआरस्स उदो उवदेसो ।
 
,
 
इरावती - टोणे खु संकिदं मे हिअअं । गहीदत्था अणन्तरं
चिन्तइस्सं ।
 
बकुलावलिका – ऐसी दुदी ओवि दे णिव्वत्तपरिकम्मा चलणो ।
जाव णं सणूउरं करेमि । ( इति नाट्येन नूपुरयुगलमामुच्य ।) हला, उ-
ट्टेहि । असोअविआसइत्तअं देवीए णिओअं अणुचिट्ट ।
( उमे उत्तिष्ठतः । )
 
१. त्वं तावद्दुर्जातेऽत्यन्तं सहाया भव ।
२. विमर्दसुरभिर्बकुलावलिका खल्वहम् ।
 
३. पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ।
४. भट्टिनि, अधिकारस्योचित उपदेशः ।
 
९. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि ।
६. एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । यावदेनं सनपुरं क-
रोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोगमनुतिष्ठ ।
 
त्वं तावद्दुर्जाते दुःखेऽत्यन्तं सहाया भव । 'दुर्जातं व्यसने क्लीबमसम्यग्जात-
वस्तुनि' इति केशवस्वामी ॥ विमर्दसुरभिर्बकुलावलिका खल्वहम् ॥ भावज्ञाने-
त्यादि । स्पष्टोऽर्थः ॥ पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ॥
भट्टिनि, अधिकारस्योचित उपदेशः । स्थाने खलु शङ्कितं मे हृदयम् । गृही-
तार्थानन्तरं चिन्तयिष्यामि । एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । या-
वदेनं सनूपुरं करोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोग-