2026-02-12 06:55:45 by ambuda-bot

This page has not been fully proofread.

५२
 
मालविकाग्निमित्रे
 
बकुलावलिका—गुणेसु अहिणिवेसिणो भो वि ।
मालविका - अलीअं मन्तेसि । एदं एव मइ णत्ति ।
बकुलावलिका – सच्चं तुइ णत्ति । भत्तृणो किलेसु वरपण्डुरेस
 
दीसह असु
 
-
 
निपुणिका – ढमं गुणिदं विअ हदासाए उत्तरं ।
 
-
 
बकुलावलिका — अणुराओ अणुराएण पचेो चि सुअ-
णवणं पमाणीकरेहि ।
 
8
 
मालविका - किं अत्तणो छन्देण मन्तेसि ।
 
बकुलावलिका - हि हि । भत्तणो खु एदाई पणअमिदु-
आई अक्खराई वत्तन्तरिदाई ।
 
मालविका - हला, देविं चिन्तित्र ण मे हिअअं विस्ससदि ।
बकुलावलिका – मुद्धे, भमरसंपादो भविस्सदित्ति वसन्तावदा-
रसवत्सं किं ण चूदप्पसवो ओदंसिदवो ।
 
१. गुणेष्वभिनिवेशिनो भर्तुरपि ।
 
२. अलीकं मन्त्रयसे । एतदेव मयि नास्ति ।
 
३. सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ।
४. प्रथमं गुणितमित्र हताशाया उत्तरम् ।
 
५. अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ।
६. किमात्मनश्छन्देन मन्त्रयसे ।
 
७. नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्षराणि वक्रान्तरितानि
८. सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ।
 
९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतार सर्वस्वं किं न चूत-
प्रसवोऽवतंसितव्यः ।
 
न्यस्य ॥ गुणेष्वभिनिवेशिनो भर्तुरपि ॥ अलीकं मन्त्रयसे । एतदेव मयि नास्ति ॥
सत्यं वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथमं गुणितमिव
हताशाया उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ॥
किमात्मनश्छन्देन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणय मृदुकान्यक्ष-
राणि वक्रान्तरितानि ॥ सखि, देवी चिन्तयित्वा न मे हृदयं विश्वसिति ॥ मुग्धे,
भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूतप्रसवोऽवतंसितव्यः ॥