2026-02-12 06:55:44 by ambuda-bot

This page has not been fully proofread.

राजा - सखे, पश्य ।
 
तृतीयोऽङ्कः ।
 
५१
 
आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् ।
प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥
विदूषकः - कुदो दे अणुसओ । चिरं भवदा एदं कमेण अ-
गृहविदवं ।
 
बकुलावलिका—संहि, अरुणसदपत्तं विअ सोहदि दे च -
 
ठणं । सबहा भत्तणो अङ्कपरिवट्टिणी होहि ।
 
( इरावती निपुणिकामपेक्षते ।)
 
राजा - ममेयमाशीः ।
 
मालविका - माँ अवअणीअं मन्तेहि ।
 
बकुलावलिका - ए मन्तइद एव मन्तिदं ।
मालविका — पंखु अहं तव ।
 
-
 
बकुलावलिका — केवलं मह ।
मालविका — कंसखु अण्णस्स ।
 
१. कुतस्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ।
२. सखि, अरुणशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरि-
तिनी भव ।
 
३. मा अवचनीयं मन्त्रयख ।
 
४. मया मन्त्रयितव्यमेव मत्रितम् ।
 
५.
 
प्रिया खल्वहं तव ।
 
६. न केवलं मम ।
 
७. कस्य खल्वन्यस्य ।
 
हतो लम्भयितव्यः । अथवा प्रवातमेतत्स्थानम् ॥ आर्द्रालक्तकमित्यादि ।
मुखमारुतेन वीजयितुं शोषयितुं प्रथमतरो मुख्यतरः प्रतिपन्नः प्राप्तः ॥ कुत-
स्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ॥ सखि, अरुणशतपत्रमिव
शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ॥ मा अवचनीयं मन्त्रयख ॥
मया मन्त्रयितव्यमेव मन्त्रितम् ॥ प्रिया खल्वहं तव ॥ न केवलं मम ॥ कस्य खल्व-