2026-02-12 06:55:44 by ambuda-bot

This page has not been fully proofread.

इरावती — कहं विअ ।
 
-
 
तृतीयोऽङ्कः ।
 
४९
 
निपुणिका – ऐसा असो अपाअवच्छाआए मालविआए बउला-
लिआ चलणालंकारं णिवेदि ।
 
इरावती — (शङ्कां रूपयित्वा ।) अभूमी इअं मालविआए । कहं
इत्थ तक्केसि ।
 
निपुणिका – मि दोलापरिब्भंसिदाए सरुअचलणाए दे-
बीए असोअदोहलाहिआरे मालविआ णिउत्तेत्ति । अण्णा कह
वी सअं धारिअं णूउरजुउलं परिअणस्स अब्भणुजाणिस्सदि ।
इरावती - मेहदी क्खु से संभावणा ।
 
निपुणिका – अण्णेसीअदि भट्टा ।
 
इरावती - हैला, ण मे चलणा अण्णदो पवट्टन्ति । मदो मं
 
१. कथमिव ।
 
२. एषाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणालंकारं
निर्वर्तयति ।
 
३. अभूमिरियं मालविकायाः । कथमत्र तर्कयसि ।
 
४. तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोहदाधिकारे
मालविका नियुक्तेति । अन्यथा कथं देवी स्वयंधारितं नृपुरयुगुलं परिजन -
स्याभ्यनुज्ञास्यति ।
 
५. महती खल्वस्याः संभावना ।
 
६. किमन्विष्यते भर्ता ।
 
७. सखि, न मे चरणावन्यतः प्रवर्तते । मदो मां विकारयति । आश-
ङ्कितस्य तावदन्तं गमिष्यामि । स्थाने खलु कातरं मे हृदयम् ।
 
न्वत्योः पिपीलिकाभिर्दष्टम् । भावे क्तः ॥ कथमिव ॥ एषाशोकपादपच्छायायां
मालविकाया बकुलावलिका चरणालंकारं निर्वर्तयति ॥ अभूमिरियं मालविकायाः ।
कथमत्र तर्कयति ॥ तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोह-
दाधिकारे मालविका नियुक्तेति । अन्यथा कथं देवी स्वयंधारितं नूपुरयुगुलं परि-
जनस्याभ्यनुज्ञास्यति ॥ मद्दती खल्वस्याः संभावना ॥ किमन्विष्यते भर्ता ॥ सखि,
न मे चरणावन्यतः प्रवर्तेते । मदो मां विकारयति । आशङ्कितस्य तावदन्तं ग-
 
माल० ५