2026-02-12 06:55:43 by ambuda-bot

This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
नव किसलयरागेणाग्रपादेन बाला
स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन ।
अकुसुमितमशोकं दोहदापेक्षया वा
 
प्रणमितशिरसं वा कान्तमार्द्रापराधम् ॥ १२ ॥
 
विदूषकः - पेहरिस्सदि तत्तहोदी तुमं अवरद्धम् ।
 
_
 
राजा - मूर्ध्ना प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य ।
(ततः प्रविशति युक्तमदा इरावती चेटी च । )
 
४७
 
इरावती - हैजे णिउणिए, सुणोमि बहुसो मदो किल इत्थि -
आजणस्स मण्डणं ति । अवि सच्चो लोअवाओ अअं ।
निपुणिका – पैढमं लोअवाओ एव । अज्ज सच्चो संवृत्तो ।
इरावती- "संकितणसंसिणा अलं सिणेहेण । कहेहि कुदो
दाणिं ओगमिवो दोलाघरं पुढमं गदो भट्टा ण वेति ।
निपुणिका-ट्टिणीए अखण्डिदादो पणआदो ।
 
इरावती - अलं सेवाए । मज्झत्थदं परिगहिअ भणाहि ।
 
१. प्रहरिष्यति तत्रभवती वामपराद्धम् ।
 
२. चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डनमिति
अपि सत्यो लोकवादोज्यम् ।
 
३. प्रथमं लोकवाद एव । अद्य सत्यः संवृत्तः ।
 
४. संकीर्तनशंसिनालं स्नेहेन । कथय कुत इदानीमवगन्तव्यो दोला-
गृहं प्रथमं गतो भर्ता न वेति
 
५. भट्टिन्या अखण्डितात्प्रणयात् ।
 
६. अलं सेवया । मध्यस्थतां परिगृह्य भण ।
 
अधिकार उपक्षिप्तः ॥ नव किसलयेत्यादि । स्पष्टोऽर्थः ॥ प्रहरिष्यति तत्रभवती
वामपराद्धम् ॥ चेटि निपुणिके, शृणोमि बहुशो मदः किल स्त्रीजनस्य मण्डन-
मिति । अपि सत्यो लोकवादोऽयम् ॥ प्रथमं लोकवाद एव अद्य सत्यः संवृत्तः ॥
संकीर्तनशंसिनाएं स्नेहेन कथय कुत इदानीमवगन्तव्यो दोलागृहं प्रथमं गतो
भर्ता न वेति ॥ भट्टिन्या अखण्डितात्प्रणयात् । अलं सेवया । मध्यस्थतां परिगृह्य
न ॥ वसन्तो नलोलुपेनार्यगौतमेन । कथितम्। त्वरतां भट्टिनी । चेटिम,