2026-02-12 06:55:42 by ambuda-bot

This page has not been fully proofread.

४४
 
मालविकाग्निमित्रे
 
वच्छो उक्कण्ठिदाए मह असोओ अणुकरेदि । जाव एदस्स पच्छा-
यसीदले सिलापट्ट णिसण्णा अप्पाणं विणोदेमि ।
 
विदूषकः - सुदं भवदा । उक्कण्ठिदम्मित्ति तत्तहोदी मन्तेदि ।
राजा -- नैतावता भवन्तं प्रसन्नतर्फे मन्ये । कुतः ।
वोढा कुरवकरजसां किसलयपुटभेदशीकरानुगतः ।
अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥
( मालविकोपविष्टा । )
 
राजा - सखे; इतस्तावत् । आवां लतान्तरितौ भवावः ।
विदूषकः - ईरावदिं विअ अदूरे समद्धेमि ।
 
राजा - नहि कमलिनीं लब्ध्वा ग्राहमपेक्षते मतङ्गजः । ( इति
विलोकयस्थितः । )
 
मालविका - हिअअ, णिरवलम्बणादो अदिभूमिलङ्घिणो ते
मणोरहादो विरम । किं मं आआसिअ ।
 
( विदूषको राजानमपेक्षते ।)
 
राजा - प्रिये, पश्य वामत्वं स्नेहस्य ।
औत्सुक्य हेतुं विवृणोषि तत्त्वं
तत्त्वावबोधैकरसो न तर्कः ।
 
तथापि रम्भोरु करोमि लक्ष्य-
 
मात्मानमेषां परिदेवितानाम् ॥ १० ॥
 
१. श्रुतं भवता । उत्कण्ठितास्मीति तत्रभवती मन्त्रयति ।
२. इरावतीमिवादूरे समर्थये ।
 
३. हृदय, निरवलम्बनादतिभूमिलङ्घिनस्ते मनोरथाद्विरम । किं मामा-
यास्य ।
 
व मदनव्याधिना परिमृष्टा भविष्यति ॥ अयं स सुकुमार दोहदापेक्ष्यगृहीत-
कुसुमनेपथ्य उत्कण्ठिताया ममाशोकोऽनुकरोति । यावदस्य प्रच्छायशीतले
शिलापट्टके निषण्णात्मानं विनोदयामि ॥ श्रुतं भवता । उत्कण्ठितास्मीति तत्र-
भवती मन्त्रयति ॥ वोढेत्यादि । स्पष्टोऽर्थः इरावतीमिवादूरे समर्थये ॥
हृदय, निरवलम्बनादतिभूमिल निस्ते मनोरथाद्विरम । किं मामायास्य ॥ औ-,
त्सुक्येत्यादि । स्पष्टोऽर्थः ॥ सांप्रतं भवतो निःसंशयं भविष्यति एषार्पित
 
1