2026-02-12 06:55:41 by ambuda-bot

This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
राजा - शक्यमिदानीं जीवितमवलम्बितुम् ।
त्वदुपलभ्य समीपगतां प्रियां
हृदयमुच्छसितं मम विक्लवम् ।
 
तरुवृतां पथिकस्य जलार्थिनः
 
अथ क्व तत्रभवती ।
 
सरितमारसितादिव सारसात् ॥ ६ ॥
 
४३
 
विदूषकः - ऐसा तरुराइमज्झादो किन्ता इदो एव अहिव-
 
इन्ती दीसर ।
 
राजा - ( विलोक्य सहर्षम् 1 ) वयस्य, पश्यामि ।
 
विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।
अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥
सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि ।
शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।
 
माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ ८ ॥
विदूषकः - ऐसावि भवं विअ मअणवाहिणा परिमुट्ठा
भविस्सदि ।
 
राजा - सौहार्दमेवं पश्यति ।
 
--
 
मालविका - असो सुउमालदोहापेक्खी अगहिदकुसुमणे-
 
१. एषा तरुराजिमध्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते ।
२. एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति ।
 
३. अयं स सुकुमारदोह दापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठिताया ममा-
शोकोऽनुकरोति । यावदस्य प्रच्छायशीतले शीतले शिलापट्ट के निपण्णात्मानं
विनोदयामि ।
 
त्वदुपलभ्येत्यादि । स्पष्टोऽर्थः । अत्र संचिन्त्यमानार्थस्य प्राप्तेः क्रमो नाम
संध्यङ्गमुक्तं भवति ॥ एषा तरुराजिमध्यानिष्क्रान्तेत एवाभिवर्तमाना दृश्यते ॥
विपुलमिति । स्पष्टोऽर्थः ॥ शरकाण्डेति । स्पटोऽर्थः ॥ एषापि भवानि -