2026-02-12 06:55:41 by ambuda-bot
This page has not been fully proofread.
४२
मालविकाग्निमित्रे
वि दाव लज्जेमि । कुदो विहवो सिणिद्धस्स सहीजणस्स इमं वुत्तन्तं
आचक्खिदुं । ण जाणे अप्पडिआरगरुअं वेअणां केत्तिअं कालं
मअणो मं णइस्सदित्ति । ( इति कतिचित्पदानि गत्वा । ) आ, कहिं खु
पत्थिदह्नि । (इति स्मृतिमभिनीय 1 ) आदिसि देवीए । गोदमचावलादो
दोलापरिभट्टाए सरुजो मह चलणो । तुमं दाव गदुअ तबणीआसो-
अस्स दोहलं विट्टेहित्ति । जदि सो पञ्चरत्तब्भन्तरे कुसुमं दंसेदि, तदो
अहं अहिलासपूरइत्तअं पसादं दाइस्सं ति । जाव णिओअभूमिं पुढमं
गदा होमि, ताव अणुपदं मम चलणालंकारहत्थाए बउलावलिआए
आअन्तवं परिदेवइस्सं ताव वीसद्धं मुहुत्तअं । ( इति परिक्रामति । )
विदूषकः - ( दृष्ट्वा 1 ) वैअस्स, एदं खु सीहुपाणुवेजिदस्स
मच्छण्डिआ उवणदा ।
राजा - अयि किमेतत् ।
'
विदूषकः - ऐसा णादिपरिआरवेसा ऊसुअवअणा एआइणी
मालव अदूरे वट्टदि ।
राजा - ( सहर्षम् 1 ) कथं मालविका ।
विदूषकः - अह ई ।
इं
१. वयस्य, एतत्खलु सीधुपानोद्वेजितस्य मत्स्यण्डिकोपनता ।
२. एपा नातिपरिचारवेषोत्सुकवदनैकाकिनी मालविकाऽदूरे वर्तते ।
३. अथ किम् ।
रमिलषन्त्यात्मनोऽपि तावलनामि । कुतो विभवः स्निग्धस्य सखीजनस्येमं
वृत्तान्तमाख्यातुम् । न जानेऽप्रतीकारगुरुकां वेदनां कियन्तं कालं मदनो मां
नेष्यतीति । आ, कुन खलु प्रस्थितास्मि । 'आस्मृती' । आदिष्टास्मि देव्या । गौत•
मचापलाद्दोलापरिभ्रष्टायाः सरुजो मम चरणः । त्वं तावद्गत्वा तपनीयाशोकस्य
दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽहमभिलाष-
पूरयितृकं प्रसादं दास्यामीति । यावन्नियोगभूमिं प्रथमं गता भवामि । यावत्पु-
रानिपातयोर्लट्' इति भविष्यदर्थे लट् । तावदनुपदं मम चरणालंकारहस्तया
बकुलावलिकयागन्तव्यम्। परिदेवयिष्यामि तावद्विषब्धं मुहूर्तकम् ॥ वयस्य, एत-
त्खलु सीधुपानोद्वे जितस्य मत्स्यण्डिकोपनता ॥ मत्स्यण्डिका नाम शर्कराविशेषः ॥
एषा नातिपरिचारवेषोत्सुकवदनैकाकिनी मालविकाsदूरे वर्तते ॥ अथ किम् ॥