2026-02-12 06:55:41 by ambuda-bot

This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
४१
 
इदुकामाए महुलच्छीए जुवइवेसलज्जापइत्तअं वसन्तकुसुमणे-
 
त्थं गहीदं ।
 
राजा - ( विस्मयात् । ) एतदवलोकयामि ।
रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः
प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् ।
आक्रान्ता तिलकक्रिया च तिलकैर्लमद्विरेफाञ्जनैः
सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ ५ ॥
(उभौ नाट्येनोद्यानशोभां निर्वर्णयतः । )
 
(ततः प्रविशति पर्युत्सुका मालविका ।)
 
मालविका -- अविण्णादहिअअं भट्टारं अहिलसन्ती अप्पणो
 
१. अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावज्जामि । कुतो
भवः स्निग्धस्य सखीजनस्येमं वृत्तान्तमाख्यातुम् । न जानेऽप्रतिकारगुरुकां
दन कियन्तं कालं मनो मां नेष्यतीति । आ, कुत्र खलु प्रस्थितास्मि ।
[दिष्टास्मि देव्या । गौतमचापला दोलापरिभ्रष्टायाः सरुजो मम चरणः ।
तावद्गत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे
सुमं दर्शयति, ततोऽहमभिलाषपूरयितृकं प्रसादं दास्यामीति । यावन्नियो-
भूमिं प्रथमं गता भवामि, तावदनुपदं मम चरणालंकारहस्तया बकुलावलि-
भागन्तव्यम्, परिदेवयिष्यामि तावद्विस्रब्धं मुहूर्तकम् ।
 
नेपथ्यं गृहीतम् ॥ रक्ताशोकेत्यादि । बिम्बाधरे । बिम्बमिवाधरस्तस्मिन् ।
शेषणं विशेष्येण बहुलम्' इति विशेषण समासः । ' उपमितं व्याघ्रादिभिः सामान्या -
ओगे' इत्युपमितसमासस्तु कविभिरत्र ग्राम्ये (प्रायेण नाङ्गीकृतः । अलक्तको लाक्षा ।
शोकरुचा रक्ताशोककुसुमस्य रुचा कान्त्या विशेषितगुणः । विशेषितोऽतिशयित-
रस्कृत गुणो रागो यस्य स तथोक्तः । श्यामावदातारुणम् । श्यामं च तदवदातमरुणं
तत्तथोक्तम् । 'वर्णो वर्णेन' इति कर्मधारयः । कुरबकं कुरबकपुष्पं प्रत्याख्यात विशे-
म् । प्रत्याख्यातं तिरस्कृतं विशेषकं पत्रभङ्गो येन तथोक्तम् । लमद्विरेफाञ्जनै-
1: सक्तो द्विरेफो भ्रमर एवाजनं येषु तैस्तिलकैस्तिलककुसुमैस्तिलकक्रियापि
लकस्य ललाटिकायाः क्रियाकान्तोलङ्घिता । परिभूतेत्यर्थः । माधवी मधु संबन्धिनी
र्लक्ष्मीः । शोमेत्यर्थः । योषितां स्त्रीणां मुखप्रसाधनविधौ मुखालंकारकरणे
वज्ञेवावमानेन सहितेव । अवमाननां कृतवतीवेत्यर्थः ॥ अविज्ञातहृदयं भर्ता -