2026-02-12 06:55:39 by ambuda-bot

This page has not been fully proofread.

४०
 
मालविकाग्निमित्रे
 
विदूषकः - गीरिहदि भवं अन्तेउरपडिट्ठिदं दक्खिण्णं एक्क
 
पदे पिट्ठदो कादुम् ।
 
राजा - ( विचिन्य ।) तेन हि प्रमदवनमार्गमादेशय ।
विदूषकः - दो इदो भवं ।
( उभौ परिक्रामतः । )
 
विदूषकः - ऐदं पमदवणं पवणदरचलाहिं पल्लवङ्गुलीहिं तुव -
रेदि विअ भवन्तं पवेसिदुं ।
 
पश्य
 
राजा - ( स्पर्शसुखं रूपयित्वा । ) अभिजातः खलु वसन्तः । सखे,
 
आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां
 
सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।
अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे
 
सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ ४ ॥
 
विदूषकः - विस णिव्बुदि लाहा अ ।
 
( उभौ प्रविशतः । )
 
विदूषकः - अवहाणेण दिहिं देहि । एवं खु भवन्तं विअवि-
 
१. नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ।
२. इत इतो भवान् ।
 
३. एतत्प्रमदवनं पवनदरचलाभिः पलवाङ्गुलिभिस्त्वरयतीव भवन्तं
प्रवेष्टुस् ।
 
४. प्रविश निर्वृतिलाभाय ।
 
५. अवधानेन दृष्टिं देहि । एतत्खलु भवन्तमिव विलोभयितुकामया
मधुलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् ।
 
नार्हति भवानन्तःपुर प्रतिष्ठितं दाक्षिण्य मेकपदे पृष्ठतः कर्तुम् ॥ इत इतो भवान् ॥
एतत्प्रमदवनं पवनदरचलाभिः पलवाङ्गुलीभिस्त्वरयतीव भवन्तं प्रवेष्टुम् ॥ आम-
ज्ञानामित्यादि । स्पष्टोऽर्थः ॥ प्रविश निरृतिलाभाय ॥ अवधानेन दृष्टिं देहि । एत-
खलु भवन्तमिव विलोभयितुकामया मधुलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकु-