2026-02-12 06:55:40 by ambuda-bot
This page has not been fully proofread.
तृतीयोऽङ्कः ।
३९
1 विदूषकः - अज्ज एव पुढमावदारसुहआणि रक्तकुरबआणि
'उवाअणं पेसिअ णववसन्तावदारववदेसेण इरावदीए णिउणिआमु
हेण पत्थिदो भवं । इच्छामि अज्जउत्तेण सह दोलाहिरोहणं अणुह-
विदुं ति । भवदावि से पडिण्णादं । ता पमदवणं एव गच्छल ।
राजा - न क्षममिदम् ।
विदूषकः — के विअ ।
राजा – वयस्य, निसर्गनिपुणाः स्त्रियः । कथमन्यसंक्रान्तहृदय-
मुपलालयन्तमपि ते सखी न मां लक्षयिष्यति । अतः पश्यामि ।
उचितः प्रणयो वरं विहन्तुं
बहवः खण्डनहेतवो हि दृष्टाः ।
उपचार विधिर्मनखिनीनां
न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥ ३ ॥
१. अद्यैव प्रथमावतारसुभगानि रक्तकुरबकाण्युपायनं प्रेष्य नववसन्ता -
वतारव्यपदेशेनेरावत्या निपुणिकामुखेन प्रार्थितो भवान् । इच्छाम्यार्यपु-
त्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञातम् । तत्प्रमद-
वनमेव गच्छावः ।
२. कथमिव ।
वस्थापयतु भवानात्मानम् । अत्र 'कृत उपक्षेपः' इत्यनेन कपटोपाय कल्पनाया गम्य-
मानश्वेनाभूताहरणं नाम संध्यङ्गमुक्तं भवति ॥ अद्यैव प्रथमावतारसुभगानि रक्त-
कुरवकाण्युपायनं प्रेष्य नववसन्तावतारव्यपदेशेनेरावत्या निपुणिका मुखेन प्रार्थितो
भवान् इच्छाम्यार्यपुत्रेण सह दोलाघिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञा •
तम् । तस्मात्प्रमदवनमेव गच्छावः ॥ कथमिव ॥ उचित इति । प्रणय इरावत्याः
प्रार्थना विहन्तुं प्रतिषेद्धमुचितोऽर्हो वरं मनाक्प्रियम् । अयं पक्षः किंचित्साधुरि-
त्यर्थः । हि यस्मात्कारणात्खण्डन हेतव ईर्ष्याकोपकारणानि बहवोऽनेके दृष्टा मया
लक्षिताः । खण्डनहेतुदर्शनेऽप्युपचारविशेषैः प्रलोभ्यतामित्यत आह—उपचा-
रेति । भावशून्यः प्रेमरहितं उपचार विधिरिष्टाचरणं पूर्वाभ्यधिकोऽपि पूर्वस्मादुप-
चार विधेरतिशयितो मनखिनीनां तु प्रशस्तमनसां पुनः । विवेकवतीनामित्यर्थः ।
उपचार विधिर्न भवति । किंत्वपचारविधिरित्यर्थः । अत्र नञर्थस्तद्विरोधः ॥