2026-02-12 06:55:18 by ambuda-bot

This page has not been fully proofread.

३८
 
मालविकाग्निमित्रे
 
राजा - ततः किमुक्तवती ।
 
विदूषकः - विणा वेहि । अणुगहीदसि इमिणा णिओएण ।
किंतु सा तवस्सिणी देवीए अहिअं रक्खन्तीए णाअरक्खिदो
विअ णिही ण सुहं समासादइदवा । तहवि घटइस्सं ति ।
 
राजा - भगवन् संकल्पयोने, प्रतिबन्धवत्सु चापि विषयेष्वभि-
निवेशकारी किं तथा प्रहरसि यथा जनोऽयं न कालान्तरक्षमो
भवति । (सविस्मयम् ।)
 
क्व रुजा हृदयप्रमाथिनी
 
क्व च ते विश्वसनीयमायुधम् ।
 
मृदु तीक्ष्णतरं यदुच्यते
 
तदिदं मन्मथ दृश्यते त्वयि ॥ २ ॥
 
विदूषकः - णं भणामि तस्सि साहणिजे किदो उवक्खेओ ।
पज्जवत्थावेदु भवं अप्पाणं ।
 
राजा - अथेमं दिवसशेषमुचितव्यापारविमुखेन चेतसा क्वनु
खलु यापयामि ।
 
१. विज्ञापय । अनुगृहीतास्म्यनेन नियोगेन । किंतु सा तपस्विनी
देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुखं समासादयितव्या । तथापि
घटयिष्यामीति ।
 
२. ननु भणाभि तस्मिन्साधनीये कृतः उपक्षेपः । पर्यवस्थापयतु भवा-
नात्मानम् ।
 
प्रसक्ते प्रस्तुते सति किं किमर्थं परितापं संतापं व्रजसि प्राप्नोषि ॥ अलं भवतो धीर
तामुज्झित्या परिदेवितेन । दृष्टा मया तत्रभवत्या मालविकायाः प्रियसखी बकुला-
वलिका । श्रावितोऽयमर्थो यो भत्रता संदिष्टः ॥ विज्ञापय । अनुगृहीतास्म्यनेन
नियोगेन । किंतु सा तपखिनी देव्याधिकं रक्षन्त्या नागरक्षित इव निधिर्न सुख
समासादयितव्या । तथापि घटयिष्यामिति । अत्र तपस्विनीति करुणापात्रमुच्यते ।
'तपस्वी करुणापात्रम्' इति हलायुधः । अत्र प्राप्तिसंभावनया प्रात्याशा नाम तृ-
तीयावस्था सूचिता । अनया प्राप्याशया बिन्दोः समन्वयाद्गर्भसंधिरिति मन्तव्यम् ॥
क्व रुजेत्यादि । स्पष्टोऽर्थः ॥ ननु भणामि तस्मिन्साधनीये कृत उपक्षेपः । पर्य