2026-02-12 06:55:18 by ambuda-bot

This page has not been fully proofread.

तृतीयोऽङ्कः ।
 
३७
 
मधुरिका – हेला, समं एव गच्छा । अहं वि इमस्स चि-
राजमाणकुसुमोग्गमस्त तवणीआसोअस्स दोहलनिमित्तं देवीए
विणावे ।
 
समाहितिका - जुज्जइ । अहिआरो क्खु तुह ।
 
( इति निष्क्रान्ते )
इति प्रवेशकः ।
 
(ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च । )
राजा - (आत्मानं विलोक्य ।)
 
शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे
भवेत्सास्रं चक्षुः क्षणमपि न सा दृश्यत इति ।
तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं
 
प्रसक्ते निर्वाण हृदय परितापं व्रजसि किम् ॥ १ ॥
विदूषकः - अलं भवदो धीरं उज्झिन परिदेविदेण । दिट्ठा
म तत्तहोदीए मालविआए पिअसही बउलावलिआ । सुणाविदो
अअं अत्थो जो भवदा संदिठ्ठो ।
 
१. सखि सममेव गच्छावः । अहमप्यस्य चिरायमाणकुसुमोद्गमस्य
तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि ।
 
२. युज्यते । अधिकारः खलु तव ।
 
३. अलं भवतो धीरतामुज्झित्वा परिदेवितेन । दृष्टा मया तत्रभवत्या
मालविकायाः प्रियसखी बकुलावलिका । श्रावितोऽयमर्थो यो भवता
संदिष्टः ।
 
णकुसुमोद्गमस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि ॥ युज्यते । अधि-
कारः खलु तव॥ इति प्रवेशकः ॥ ततः प्रविशतीत्यादि । कामयमानावस्थः ।
कामयमानानां कामिनामवस्थेवावस्था दशा यस्य स तथोक्तः ॥ शरीरमित्यादि ।
दयिता लिङ्गनमुखे प्रियाभिष्वङ्गसौख्येऽसत्य विद्यमाने सति शरीरं वपुः क्षामं स्यात्कृशं
भवेत् । क्षणमपि क्षणमात्रमपि सा मालविका न दृश्यत इति न लक्ष्यत दृति चक्षुः
साखं सवाष्पं भवेत्स्यात् । हे हृदय चित्त, सारङ्गाक्ष्या हरिणनेत्रया तया मालविकया
कदाचिनातुचिद्विरहितं वियुक्तं नासि न भवसि । अतस्तस्मात्कारणान्निर्वाणे सुखे
 
माल० ४