2026-02-12 06:55:15 by ambuda-bot

This page has not been fully proofread.

३४
 
मालविकाग्निमित्रे
 
विहंगो आमिसलोलुओ भीरुओ अ । ता अणादुरो भविअ कज्जसिद्धिं
पत्थेन्तो मे रोअसि ।
 
राजा — कथमनातुरो भविष्यामि ।
सर्वान्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य ।
 
सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १४ ॥
( इति निष्क्रान्ताः सर्वे । )
इति द्वितीयोऽङ्कः ।
 
तत्रभवती । भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकच ।
तस्मादनातुरो भूला कार्यसिद्धिं प्रार्थयमानो मे रोचते । अत्र सान्त्वनस्य गम्य-
मानलात्पर्युपासनं नाम संध्यङ्गमुक्तं भवति ॥ सर्वान्तःपुरेत्यादि । यत्स्नेहम्य
प्रेम्ण एकायनीभूता । एकं केवलमयनं स्थानम् । आश्रय इत्यर्थः । तद्भूता ।
अत्राने मालविकाया निष्क्रमणेन कथाविच्छेदे सति सर्वान्तःपुरेत्यादिना गम्य-
मानो राज्ञोऽभिलाषातिशय उत्तराङ्ककथाहेतुत्वाद्विन्दुरियनुसंधेयम् ॥ इति
श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्र
व्याख्याने द्वितीयोऽङ्कः ॥