2026-02-12 06:55:16 by ambuda-bot

This page has not been fully proofread.

द्वितीयोऽङ्कः ।
 
३३
 
देवी — बिट्टेदु अज्जउत्तो मज्जणविहिम् ।
विदूषकः - भोदि, विसेसेण पाणभोअणं तुवरावेहि ।
परिव्राजिका- (उत्थाय । ) स्वस्ति भवते ( इति सपरिजनया देव्या
 
सह निष्क्रान्ता । )
 
विदूषकः - भो अस्स, ण केवलं रूवे, सिप्पेवि अद्दुदीआ
 
मालविआ ।
 
राजा - वयस्य,
 
अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।
 
परिकल्पितो विधात्रा वाणः कामस्य विषदिग्धः ॥ १३ ॥
किंबहुना । सखे, चितथिन्तव्योऽस्मि ।
 
विदूषकः - भवदावि अहं । दिढं विपणिकन्दु विअ मे अ-
 
रब्भन्तरं दज्झइ ।
 
राजा - एवमेव भवान्सुहृदर्थेऽपि त्वरताम् ।
 
---
 
विदूषक - हीदी खणो । किं तु मेहावलीणिरुद्धा जोण्हा
विअ परोहीणदंसणा तत्तहोदी । भवं वि सूणापरिसरचरो विअ
 
१. निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् ।
 
२. भवति, विशेषेण पानभोजनं त्वरय ।
 
३. भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका ।
४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते ।
५. गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना तत्र-
भवती । भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च ।
तदनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे ।
 
,
 
निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् ॥ भवति विशेषेण पानभोजनं वरय ॥ भो
वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका ॥ अव्याजसुन्दरीमि-
त्यादि । ललिते सुभगेन विज्ञानेन संगीतकलापरिज्ञानेन ॥ भवताप्यहम् ।
दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । विपणिकन्दुर्नाम पण्यवीथिकायां
पिष्टपचनपात्रम् । 'कन्दुर्ना स्वेदनी स्त्रियाम्' इत्यमरः ॥ एवमेवेत्यादि ।
एवमेवेत्थमेव । यथा भवान्भोजनरूपे स्वकार्ये त्वरते तथा सुहृदर्थे मदर्थे माल-
विका पुनर्दर्शने वरताम् । अत्र दृष्टनष्टस्य बीजस्यानुसर्पणात्परिसर्प इति संध्यङ्ग-
मुक्तं भवति ॥ गृहीतः क्षणः । किं तु मेघावली निरुद्धा ज्योत्स्नेव पराधीनदर्शना