2026-02-12 06:55:15 by ambuda-bot

This page has not been fully proofread.

३२
 
मालविकाग्निमित्रे
 
विदूषकः - ( जनान्तिकम् ।) दैलिदो विअ आदुरो वेज्जेण ओ-
सदं दीअमाणं इच्छसि ।
 
-
 
( प्रविश्य 1 )
 
हरदत्तः — देव, मदीयमिदानीं प्रयोगमवलोकयितुं क्रियतां
प्रसादः ।
 
राजा - (आत्मगतम् ।) अवसितो दर्शनार्थः । ( दाक्षिण्यमवलम्ब्य
प्रकाशम् ।) ननु पर्युत्सुका एव वयम् ।
 
हरदत्तः - अनुगृहीतोऽस्मि ।
 
(नेपथ्ये ।)
 
वैतालिकः — जयतु जयतु देवः । उपारूढो मध्याह्नः । तथा हि ।
 
-
 
पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां
सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि ।
 
विन्दुक्षेपान्पिपासुः परिसरति शिखी भ्रान्तिमद्वारियां
 
सर्वैरुस्रैः समग्रस्त्वमिव नृपगुणैदप्यते सप्तसप्तिः ॥ १२ ॥
विदूषकः - अविहा अविहा । अह्माणं उण भोअणवेला उव-
ट्टिदा । उदवेलादिकमे चिइच्छआ दोसं उदाहरन्ति । ( हरदत्तं
विलोक्य 1 ) किं दाणिं भणसि ।
 
हरदत्तः - नास्ति वचनस्यान्यस्यावकाशोऽत्र ।
 
राजा - तेन हि त्वदीयमुपदेशं वो वयं द्रक्ष्यामः । विश्राम्यतु
भवान् ।
 
हरदत्तः - यदाज्ञापयति देवः । ( इति निष्क्रान्तः । )
 
१. दरिद्र इवातुरो वैद्येनोपधं दीयमानमिच्छसि ।
 
२. अविध अविध । अस्माकं पुनर्भोजनवेलोपस्थिता । उचितवेलातिक्रमे
चिकित्सका दोषमुदाहरन्ति । किमिदानीं भणसि ।
 
धुतं नाम संध्यङ्गमुक्कं भवति ॥ दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि ॥
पत्रच्छायेत्यादि । स्पष्टोऽर्थः ॥ अविध अविध । अस्माकं पुनर्भोजनवेलोप-
स्थिता । उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति । किमिदानीं भणसि ॥