2026-02-12 06:55:15 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽङ्कः ।
३१
अन्तरिक्खे जलपाणं इच्छिदं । अहवा पण्डिदसंतोसपच्चयाणं
मूढजादी जदो अत्तहोदीए सोहणं भणिदं तदो से इमं पारि-
तोसिअं पअच्छामि । ( इति राज्ञो हस्तात्कटकमाकर्षति । )
देवी - चिंह दाव । गुणन्तरं आणन्तो किंणिमित्तं तुमं आ-
हरणं देसि ।
.
विदूषकः – परकेरअंति करिअ ।
देवी - ( आचार्य विलोक्य) अज्ज गणदास, दंसिदोवदेसा दे
सिस्सा ।
गणदासः - वत्से, प्रतिष्ठखेदानीम् ।
( मालविका स्नेहाचार्येण निष्क्रान्ता ।)
विदूषकः - ( जनान्तिकम् ) ऐत्तिओ मे मादिविहवो भवन्तं
सेविदुं ।
राजा - अलमलं परिच्छेदेन । अहं हि
भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव ।
द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् ॥ ११ ॥
१. तिष्ठ तावत् । गुणान्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि ।
२. परकीयमिति कृत्वा ।
३. आर्य गणदास, दर्शितोपदेशा ते शिष्या ।
४. एतावान्मे मतिविभवो भवन्तं सेवितुम् ।
रिक्षे जलपानमिष्टम् । अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभ-
त्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि ॥ तिष्ठ तावत् । गुणा-
न्तरमजानन्किनिमित्तं लमाभरणं ददासि ॥ परकीयमिति कृत्वा ॥ आर्य गण-
दास, दर्शितोपदेशा ते शिष्या । अनेन मालविकानिर्गमनहेतुना देवीवचनेन
राज्ञो हितरोधनान्निरोधो नाम संध्यङ्गमुक्तं भवति ॥ एतावान्मे मतिविभवो
भवन्तं सेवितुम् ॥ भाग्यास्तमयमित्यादि । तस्या मालविकायास्तिरस्करणं
तिरोधान मक्ष्णोर्ने त्रयोर्भाग्यास्तमयमिव भाग्यस्य भागधेयस्यास्तमयमिव नाशमिव ।
हृदयस्य मनसो महोत्सवस्यावसानमन्तमिव । धृतेः प्रीतेर्द्वारपिधानमिव द्वारस्य
प्रवेशमार्गस्य पिधानं तिरोधानमिव । मन्ये संभावयामि । अत्रार्तेर्गम्यमानत्वाद्वि-