2026-02-12 06:55:14 by ambuda-bot

This page has not been fully proofread.

३०
 
मालविकाग्निमित्रे
 
उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।
 
श्यामायते न युष्मासु यः काञ्चनमिवामिषु ॥ ९ ॥
देवी – दिट्ठिआ अपरिक्खदाराहणेण अज्जो वड्ढइ ।
गणदासः -- देवपरिग्रह एव वृद्धिहेतुः । ( विदूषकं विलोक्य ।)
गौतम, वदेदानीं यत्ते मनसि वर्तते ।
 
-
 
विदूषकः — ढमोपदेसदंसणे पुढमं बह्मणस्स पूआ कादवा ।
सा णं वो विसुमरिदा ।
 
परिव्राजिका - अहो प्रयोगाभ्यन्तरः प्रश्नः ।
 
( सर्वे प्रहसिताः । )
 
( मालविका स्मितं करोति । )
 
राजा - (आत्मगतम् । ) उपात्तसारश्चक्षुषा मे स्वविषयः । यदनेन
स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् ।
असमग्रलक्ष्य केसरमुच्छ्रसदिव पङ्कजं दृष्टम् ॥ १० ॥
गणदासः - महाब्राह्मण, न खलु प्रथमं नेपथ्यप्रदर्शनमिदम् ।
अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः ।
 
विदूषकः -- मैं णाम मुद्धचादरण विअ सुक्खवणगज्जिदे
१. दिष्ट्या परिक्षताराधनेनार्यो वर्धते ।
 
२. प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो
विस्मृता ।
 
३. मया नाम मुग्धचातकेनेव शुष्कधनगर्जितेऽन्तरिक्षे जलपानमिष्टम् ।
अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभवत्या शोभनं भणितं
ततोऽस्यै इदं पारितोषिकं प्रयच्छामि ।
 
पूर्वाभिनीतं संचारिणं नुदत्यपाकरोति । रागबन्धो रञ्जनत्वयोगः स एव । पूर्वे
यादृशस्तादृश एवेत्यर्थः ॥ उपदेशं विदुरित्यादि । उपदेशिनः शिक्षकस्य ।
युष्मासु युष्मदृशेषु । विवेकिष्वित्यर्थः । न श्यामायते न मलिनीभवति । 'लोहि-
तादिडाज्भ्यः क्यप्' । 'वा क्यषः' इति विकल्पादात्मनेपदम् ॥ दिष्ट्या अपरिक्ष-
ताराधनेनार्यो वर्धते ॥ प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा
ननु वो विस्मृता । अत्र परिहासस्य गम्यमानत्वान्नर्मेति संध्यङ्गमुक्तं भवति ॥
स्मयमानमित्यादि । स्पष्टोऽर्थः । मया नाम मुग्धचात केनेव शुष्कघनगर्जितेन्त-