2026-02-12 06:55:14 by ambuda-bot

This page has not been fully proofread.

द्वितीयोऽङ्कः ।
 
२९
 
विदूषकं विलोक्य) ततः शृणुमो वयं विवक्षितमार्यस्य ।
विदूषकः—(गणदासं विलोक्य ) कोसिई दाव पुच्छ । पच्छा
 
तो मए कम्मभेदो दिट्टो तं भणिस्सं ।
 
गणदासः - भगवति, यथादृष्टमभिधीयताम् । गुणो वा दोषो वा ।
परिव्राजिका – यथादृष्टं सर्वमनवद्यम् । कुतः ।
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
 
:
 
पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ
 
भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ८ ॥
 
गणदासः - देवः कथं वा मन्यते ।
 
राजा - वयं स्वपक्षे शिथिलाभिमानाः संवृत्ताः ।
 
गणदास:- - अद्य नर्तयितास्मि ।
 
-
 
१. कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि ।
 
तमत्त्वादुपन्यासो नाम संध्यङ्गमुक्तं भवति । कौशिकीं तावत्पृच्छ । पश्चाद्यो
या कर्मभेदो दृष्टस्तं भणिष्यामि ॥ अङ्गैरित्यादि । अन्तर्निहितवचनैरन्तर्नि-
रेतान्यभ्यन्तरस्थापितानि वचनानि पदानि यैस्तैरङ्गैर्हस्वादिभिः । अत्राभ्यासपा-
वादङ्गानां स्वत एवान्तर्निहितवचनवमुत्प्रेक्षितमिति मन्तव्यम् । अर्थो गीतार्थः
म्यकू साधु । सूचितः प्रकाशितः । पादन्यासः पादस्य न्यासो विन्यासः । लयम-
रंगतोऽनुसृतः । लयो नाम तालमानम् । 'तालवर्ती तु यः कालः स काललयना-
यः' इत्युक्तत्वात् । अत्र पादन्यासस्य स्वतो लयानुसरणमभ्यासपाटवादिति
मन्तव्यम् । रसेषु रसविषयेषु तन्मयत्वं तादात्म्यम् । रसात्मता भवतीत्यर्थः ।
पत्र रसशब्देनोपचारात्परितोषातिशयवत्त्वादिभावाः कथ्यन्ते । प्रकृतरसस्यैकत्वा-
.सेष्विति बहुवचनानुपपत्तिप्रसङ्गात् । अभिनयः प्रयोगः । यथोक्तम् —' प्रयोगो
! तु नाट्यादेर्भवेदभिनयो हि सः' इति । शाखायोनिः शाखा योनिः प्रभवो यस्य स
थोक्तस्तथाविधः सन् । मृदुः सुकुमारः । शाखा नाम नृत्तहस्तानां मानप्रचारः ।
थोक्तम् -'शाखा तु नृत्तहस्तानां या मात्रोचितनर्तना' इति । तद्विकल्पानु-
त्तौ तस्याभिनयस्य विकल्पो भेदस्तस्यानुवृत्तिरनुगतिः प्राप्तिः । तस्यां सत्यां
वः अभिनीयमानो निर्वेदादिर्विषयादाश्रयात् । प्रकृतात्स्थान इत्यर्थः । भावं