2026-02-12 06:55:14 by ambuda-bot
This page has not been fully proofread.
२८
मालविकाग्निमित्रे
विदूषकः - भोदि', चिट्ठ किंचि । वो विसुमरिदो कम्म
भेदो । तं दाव पुच्छिस्सम् ।
गणदासः - भद्रे, उपदेशविशुद्धा यातुमर्हसि ।
( मालविका निरृत्य स्थिता 1 )
।
राजा - ( आत्मगतम् ।) अहो, सर्वास्ववस्थासु चारुता शोभान्तरं
पुष्यति । तथा हि ।
वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्तादस्याः स्थितमतितरां कान्तमृज्वायतार्थम् ॥ ६ ॥
देवी - णं गोदमवअणं वि अज्जो हिजए करेदि ।
गणदासः - देवि, मा मैवम् । दैवप्रत्ययात्संभाव्यते सूक्ष्मद-
शिता गौतमस्य ।
मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः ।
'पङ्कच्छिदः फलस्येव निकपेणाविलं पयः ॥ ७ ॥
१. भवति, तिष्ठ किंचित् । वो विस्मृतः कर्मभेदः । तं तावत्प्रक्ष्यामि ।
२. ननु गौतमवचनमप्यार्यो हृदये करोति ।
दुला । रसनीयेत्यर्थः । सा चासौ प्रार्थना सैव व्याजोऽपदेशो यस्मिन्कर्मणि तत्तथो-
तम् । अहमुक्त इवोदित इव ॥ भवति तिष्ठ किंचित्क्षणमात्रम् । वो विस्मृतः कर्म-
भेदः । तं तावत्प्रक्ष्यामि ॥ वाममित्यादि । संधिस्तिमितवलयं संधौ मणिबन्धे
स्तिमितं निश्चलं वलयं कङ्कणं यस्य स तथोक्तः । तं वामं सव्यं हस्तं नितम्बे न्यस्य
निधाय । श्यामाविटपसदृशं फलिनीशाखासंनिभं द्वितीयं दक्षिणं हस्तं स्रस्तमुक्तं
स्तं शिथिलं यथा भवति तथा मुक्तं विसृष्टम् । लम्बितमित्यर्थः । कृत्वा विधाय ।
पादाङ्गुष्ठालुलितकुसुमे पादाङ्गुष्टेनालुलितमामृष्टं कुसुमं यस्य तत्तथोक्तं तस्मिन्कुट्टिमे ।
स्फटिकादिखचितस्थले पातिते व्यापारिते अक्षिणी यस्मिन्कर्मणि तथोक्तम् ।
ऋज्वायतार्धम् ऋजु अवक्रमायतं दीर्घ अधं शरीरस्योर्ध्वभागो यस्य तत्तथोक्तम् ।
अस्याः स्थितमवस्थानं नृत्तान्नर्तनादतितरामत्यर्थं कान्तं मनोहरं भवति । अत्र
वाक्यस्य विशेषितत्वात्पुष्पं नाम संध्यङ्गमुक्तं भवति ॥ ननु गौतमवचनमप्याय
हृदये करोति ॥ मन्दोऽप्यमन्दतामेतीति । स्पष्टोऽर्थः । अस्य वाक्यस्योपप-