2026-02-12 06:55:12 by ambuda-bot
This page has not been fully proofread.
२६
मालविकाग्निमित्रे
दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः
संक्षिप्तं निविडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्ब जघनं पादावरालाङ्गुली
छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ ३ ॥
मालविका — (उपगानं कृत्वा चतुष्पद वस्तु गायति ।)
दुल्हो पिओ मे तम्सि भव हिअअ णिरासं
अह्म अपङ्गवो मे परिष्फुरद्द किं पि वामो ।
एसो सो चिरदिट्ठो कहँ उण उवणइदबो
गाह में पराहीणं तुइ परिगण सतिण्हम् ॥ ४ ॥
( ततो यथार समभिनयति । )
१. दुर्लभः प्रियो में तस्मिन्भव हृदय निराश-
महो अपाङ्गो मे परिस्फुरति किमपि वामः ।
एष स चिरदृष्टः कथं पुनरुपनेतव्यो
नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥
रहितेत्यर्थः । सत्त्वस्था सत्त्वगुणयुक्ता । अधिकृता भवेत्यर्थः । यथोक्तम्—'चि
तस्याविकृतिः सत्त्वं विकृतेः कारणे सति' इति । अत्र विकृतिकारणं नायकसं-
निधिः ॥ अहो इत्याधर्ये । सर्वस्थानानवद्यता सर्वेषु स्थानेषु सर्वावयवेष्वनवद्यता
निर्दोषता । रमणीयतेत्यर्थः । दीर्घाक्षमित्यादि । वदनं मुखं दीर्घाक्षं दीर्घं
आयते अक्षिणी लोचने यस्य तत्तथोक्तम् । शरदिन्दुकान्ति शरदिन्दोः
शरच्चन्द्रस्य कान्तिरिव कान्तिर्यस्य तत्तथोक्तम् । बाहू भुजावंसयोः स्कन्धयोनती
नम्रौ । मध्योऽवलग्नं पाणिमितः पाणिना हस्तेन मितः परिमितः । जघनं
नितम्ब नितम्बातिशययुक्तम् । पादौ चरणावरालाङ्गुली अराला आकुचिता अड-
लयो ययोस्तौ तथोक्तौ । अस्या मालविकाया वपुः शरीरं नर्तयितुर्नृत्ताचार्यस्य छ-
दोऽभिप्रायो यथा यादृशस्तथा तेन प्रकारेण श्लिष्टं संगतम् । अनेन नर्तक्या वृत्तार-
म्भोचितावस्थानविशेष उक्तः । तथा चोक्तं वसन्तराजीये – 'अङ्गस्य चतुरस्रत्वं
समपादौ लताकरौ । आरम्भे सर्वनृत्तानामेतत्सामान्यमिष्यते ॥' इति ॥ उपगानं
रागदीप्तं कृत्वा चतुष्पदवस्तु चतुष्पदसंज्ञकं प्रवन्धं गायति वस्त्विति प्रबन्धः ।
'प्रबन्धो रूपकं वस्तु निबन्धस्याभिधात्रयम्' इत्युक्तलात् । दुर्लभः प्रियो मे तस्मि
न्भव हृदय निराशम् । अहो अपाङ्गो मे परिस्फुरति किमपि वामः । एष स चि -
रदृष्टः कथं पुनरुपनेतव्यः । नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥ ततो
गानानन्तरं यथारसं रसानुकूलमभिनयति । अत्र रसोऽयोगविप्रलम्भश्टङ्गारः ।