2026-02-12 06:55:12 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽङ्कः ।
२५
विदूषकः - (अपवार्य ।) उवद्विदं णअणमहु संणिहिदमक्खिअं
च । ता अप्पमत्तो दाणि पेक्ख ।
(ततः प्रविशत्याचार्यावेक्ष्यमाणाङ्गसौष्टवा मालविका ।)
विदूषकः - (जनान्तिकम् ।) पेक्खदु भवं । ण खु से पडिच्छ-
दादो परिहिआदि महुरदा ।
राजा - (अपवार्य ।) वयस्य,
चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् ।
संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता ॥ २ ॥
गणदासः – वत्से, मुक्तसाध्वसा सत्त्वस्था भव ।
-
राजा- ( आत्मगतम् । ) अहो सर्वस्थानानवद्यता रूपविशेषस्य ।
तथाहि ।
१. उपस्थितं नयनमधु संनिहितमक्षिकं च । तद्प्रमत्त इदानीं पश्य ।
२. पश्यतु भवान् । न खल्वस्याः प्रतिच्छन्दात्परिहीयते मधुरता ।
यवनिकां संहर्तुमपनेतुं व्यवसितमिवोद्युक्तमिव । अष्टार्थविषयेच्छाया गम्यमा-
नत्वाद्विलासो नाम संध्यङ्गमुक्तं भवति ॥ उपस्थितं नयनमधु संनिहितमक्षिकं
च । तस्मादप्रमत्त इदानीं पश्य ॥ ततः प्रविशतीत्यादि । आचार्यावेक्ष्यमा -
गाङ्गसौष्ठवा आचार्येण गणदासेनावेक्ष्यमाणमङ्गानां सौष्ठवं यस्याः सा तथोक्ता ।
* सौष्ठवं नामाङ्गानां शोभनावस्था । यथोक्तम् - 'अनुच्चनीच चलतामङ्गानां समपा-
दताम् । कटिकूर्परशीर्षांसकण्ठानां समरूपताम् ॥ रम्यां प्रतीकविश्रान्तिमुरसश्च
समुन्नतिम् । अभ्यासोपहितामाहुः सौष्ठवं नृत्यवेदिनः ॥' पश्यतु भवान् । न ख-
ल्वस्याः प्रतिच्छन्दात्परिहियते मधुरता ॥ अत्रापवार्येत्येतन्नियतश्राव्यार्थभेदस्या-
पवारितस्य विवक्षितत्वे कविना प्राक्प्रयुक्तमिति मन्तव्यम् । यथोक्तं वसन्त-
राजीये –'अर्थस्त्वेकेन विज्ञेयो नियतश्राव्य इष्यते । द्विविधः स परिज्ञेयो जना -
न्तश्चापवारितः॥' अत्र 'परैरलक्ष्य व्यापारं कथितोऽर्थोऽपवारितः । उक्त्वा प्राग-
पवार्येति पश्चादेनं प्रयोजयेत् ॥' इति ॥ चित्रगतायामित्यादि । मे हृदयं
मनचित्रगतायामा लेख्यगतायामस्यां मालविकायां कान्तिविसंवादशङ्कि कान्तेः
शोभाया विसंवादं विपर्यासं शङ्कत इति तथोक्तम् । संप्रतीदानीम् । साक्षादर्शन-
वेलायामित्यर्थः । इयं मालविका येन चित्रकारेणालिखिता तं चित्रकारं शिथिल-
समाधिं शिथिलप्रयत्नं मन्ये जानामि ॥ मुक्तसाध्वसा परित्यक्तभया । सभाकम्प -
माल०