2026-02-12 06:55:12 by ambuda-bot

This page has not been fully proofread.

२४
 
मालविकाग्निमित्रे
द्वितीयोऽङ्कः ।
 
(ततः प्रविशति संगीतरचनायामासनस्थो राजा सवयस्यो धारिणी परिव्राजिका
विभवतश्च परिवारः । )
 
राजा - भगवति, अत्रभवतोराचार्ययोः प्रथमं कतरस्योपदेशं
द्रक्ष्यामः ।
 
परिव्राजिका - ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्गुण-
दासः पुरस्कारमर्हति ।
 
राजा - मौद्गल्य, एवमत्रभवतोरावेद्य नियोगमशून्यं कुरु ।
कञ्चुकि - यदाज्ञापयति देवः । (इति निष्क्रान्तः ।)
 
( प्रविश्य 1 )
 
गणदासः - देव, शर्मिष्ठायाः कृतिर्लयमध्या चतुप्पदास्ति ।
तस्याश्चतुर्थवस्तुनः प्रयोगमेकमनाः श्रोतुमर्हति देवः ।
राजा - आचार्य, बहुमानादवहितोऽस्मि ।
 
(निष्क्रान्तो गणदासः । )
 
राजा - ( जनान्तिकम् ।) वयस्य,
 
नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः ।
संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥ १ ॥
 
अत्र-
 
कविरिदानीमङ्कान्तरं प्रस्तौति - ततः प्रविशतीत्यादि । 'भगवति,
भवतो:' इत्यादिना 'गणदासः पुरस्कार मर्हति' इत्यन्तेन प्रतीयमानं राज्ञ उपायतो
मालविका दर्शनप्रवर्तनं प्रयत्नो नाम द्वितीयावस्थितिरिति मन्तव्यम् । अत्र
बिन्दुप्रयत्नयोः समन्वयात्प्रतिमुखसंधिरित्यनुसंधेयम् ॥ देव, शर्मिष्ठाया इ-
त्यादि । शर्मिष्ठा नाम वृषपर्वणो राक्षसराजस्य दुहिता । तस्याः कृतिः काव्यम् ।
लयमध्या लयेन तालकालेन मध्या मध्यमानयुक्ता । चतुष्पदा चत्वारि पदानि
खण्डानि यस्याः सा तथोक्ता । तस्याः कृतिसंबन्धिनश्चतुर्थवस्तुनश्चतुर्थस्य तुर्यस्य
वस्तुनः प्रबन्धस्य प्रयोगमभिनय मेकमना अवहितः सन् श्रोतुमर्हति । अत्रशृङ्गा-
रस्य प्रतिपाद्यमानत्वालयमध्येत्युक्तम् । तथा चोक्तं भारतीये – ' शृङ्गारहास्ययोर्म-
ध्यलयः । करुणे विलम्बितः । वीररौद्राद्भुतबीभत्सभयानकेषु द्रुतः ॥ 'नेपथ्य-
परिगताया इति । नेपथ्यपरिगताया यावनिकान्तरस्थितायास्तस्या मालवि-
काया दर्शनसमुत्सुकमवलोकनोत्कण्ठितं मे चक्षुरधीरतया तरलतया तिरस्करिणीं