2026-02-12 06:55:12 by ambuda-bot
This page has not been fully proofread.
11
11
री
1
प्रथमोऽङ्कः ।
राजा - देवि, तस्याः सामाजिका भवामः ।
देवी - (स्वगतम् ।) अहो अविणओ अज्जउत्तस्स ।
( सर्व उत्तिष्ठन्ति । )
२३
विदूषकः - ( अपवार्थ । ) भो, धीरं गच्छत । तत्तभोदी धा-
रिणी विसंवादइस्सदि ।
राजा-
धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागोऽयम् ।
अवतरतः सिद्धिपथं शब्दः खमनोरथस्येव ॥ २२ ॥
( इति निष्कान्ताः सर्वे । )
इति प्रथमोऽङ्कः ।
१. अहो अविनय आर्यपुत्रस्य ।
२. भोः, धीरं गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति ।
तथोक्तं भारतीये – ' षोडशाक्षरसंपन्नं चतुर्मार्ग तथैव च ॥ द्विलेपनं षदकरणं
। त्रियति त्रिलयं तथा । त्रिगतं त्रिप्रचारं च त्रिसंयोगं त्रिपाणिकम् ॥ दशार्धपा-
णिप्रहृतं त्रिप्रहारं त्रिमार्जनम् । एमिरङ्गैस्तु संपन्नं वाद्यं पुष्करजं भवेत् ॥' तत्र
'मायूरि चार्धमायूरी तथा कामरवीति च । तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु
खराश्रयाः ॥ गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे । मध्यमचोर्ध्वगः
कार्यों मायूर्यास्तु स्वरास्त्वमी ॥ वामके पुष्करे षड्ज ऋषभो दक्षिणे तथा ।
धैवतश्चोर्ध्वगोत्रार्धमायूर्या निर्दिशेदुधः ॥ ऋषभः पुष्करे वामे पइजो दक्षिणपु-
करे । पञ्चमश्चोर्ध्वगः कार्यः कामरव्याः स्वरा अमी ॥' इति ॥ अहो, अविनय
आर्यपुत्रस्य ॥ भोः, धीरं गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति ॥
धैर्यावलम्बिनमित्यादि । अयं मुरजवाधरागो मुरजवाद्यस्य रञ्जकत्वं धैर्या-
। बलम्बिनमपि मां त्वरयति संभ्रमयति । सिद्धिपथं सिद्धि मार्गमवतरतः प्राप्नुवतः
खमनोरथस्यात्मवाञ्छितस्य शब्द इव ध्वनिरिव । अत्र बीजस्य पुनरावर्तना-
त्समाधानं नाम संध्यङ्गमुक्तं भवति । अत्रैव मुखागमस्य गम्यमानत्वात्प्राप्तिर्नाम
संध्यङ्गमुक्तं भवति । अत्रोपक्षेपादिषु संध्यङ्गेषु कतिचिदेव कविनोक्तानि नेतराणि
तथापि न दोषः । 'न्यूनमप्यत्र यैः कैश्चिदङ्गनाट्यं न दुष्यति । यद्युपात्तेषु
-संपत्तिराराधयति तद्विदः ॥' इति वचनात् । अत्र नृत्यदर्शननिश्चयान्ते प्रथमा-
कार्थे समाप्तेऽपि तमसमाप्यैवोत्तराङ्गादौ विष्कम्भादौ प्रतिपाद्यायाः संगीतरचनाया
अत्रैव निपातनादङ्कावतरणं नामार्थोपक्षेपकमुक्तं भवति । यथोक्तम् – 'अङ्काव-
तारस्त्वङ्कान्ते पात्रेणाङ्कस्य सूचनात्' इति ॥ इति श्रीकाटयवेमभूपविर.
चिते कुमार गिरिराजीये मालविकाग्निमित्रव्याख्याने प्रथमोऽङ्कः ॥