2026-02-12 06:55:10 by ambuda-bot

This page has not been fully proofread.

प्रथमोऽङ्कः ।
 
विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः ।
 
यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९॥
(आसनादुत्थातुमिच्छति । )
 
२१
 
देवी - (स्वगतम् ।) का गई। ( प्रकाशम् ।) पहवदि आअरिओ
 
. सिस्सजणस्स ।
 
गणदासः - चिरमपदे शङ्कितोऽस्मि । ( राजानमवलोक्य ।) अनु-
ज्ञातं देव्या । तदाज्ञापयतु देवः कस्मिन्नभिनयवस्तुन्युपदेशं दर्श-
यिष्यामि ।
 
राजा - यदादिशति भगवती ।
 
परिवाजिका - किमपि देव्या मनसि वर्तते । ततः शङ्कितास्मि ।
देवी - भेण वीसद्धं । पहवदि पहू अत्तणो परिअणस्स ।
 
राजा – मम चेति ब्रूहि ।
 
-
 
देवी–भैअवदि, भणेदाणीम् ।
 
परिव्राजिका – देव, शर्मिष्ठायाः कृतिं चतुष्पदोत्थं छलिकं
दुष्प्रयोज्यमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामि ।
तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम् ।
 
आचाय - यदाज्ञापयति भगवती ।
 
विदूषकः - तेर्णे हि दुवेवि बग्गा पेक्खाघरे संगीदरअणं करिअ
तत्तभवदो दूदं पेसअह । अहवा मुदङ्गसदो एव णो उत्थावइस्सदि ।
 
१. का गतिः । प्रभवत्याचार्यः शिष्यजनस ।
 
२. भण विस्रब्धम् । प्रभवति प्रभुरात्मनः परिजनस्य ।
 
३. भगवति, भणेदानीम् ।
 
४. तेन हि द्वावपि वर्गों प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं
प्रेषयतम् । अथवा मृदङ्गशब्द एव न उत्थापयिष्यति ।
 
संधेयम् ॥ विवाद इत्यादि । स्पष्टोऽर्थः ॥ का गतिः प्रभवत्याचार्यः शिष्यजनस्य॥
भण विस्रब्धम् । प्रभवति प्रभुरात्मनः परिजनस्य ॥ भगवति, भणेदानीम् ॥ तेन हि
द्वावपि वर्गों प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं प्रेषयतम्। अथवा मृदङ्गशब्द