2026-02-12 06:55:10 by ambuda-bot

This page has not been fully proofread.

२०
 
मालविकाग्निमित्रे
 
देवी - अइरोवणीदाए सिस्साए उण पडिट्टिदस्स उवदेसर
 
अण्णाय्यं पआसणं ।
 
गणदासः- - अत एव मे निर्बन्धः ।
 
-
 
देवी :- तेणं हि दुवेवि उवदेसं भअवदीए दंसेध ।
परिव्राजिका - देवि, नैतन्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्ण
याभ्युपगमो दोषाय ।
 
देवी - ( जनान्तिकम् ।) मूढे परिवाजिए, मं जाग्गतिंपि सु
विअ करेसि । ( इति सासूयं परावर्तते । )
 
1
 
( राजा देवीं परिव्राजिकायै दर्शयति । )
 
परिवाजिका-
 
अनिमित्तमिन्दुवदने मित्र भवतः पराङ्मुखी भवसि ।
प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥ १८ ॥
विदूषकः सकारणं एव । अत्तणो पक्खो रक्खिदबो :
( गणदासं विलोक्य) दिडिआ कोववाजेण देवीए परित्तादो भवं ।
सुसिक्खिदो वि स उवदेसेण णिण्हादो होदि ।
 
गणदासः - देवि, श्रूयताम् । एवं जनो गृह्णाति । तदिदानीम्
 
१. अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्यान्याय्यं प्रका-
शनम् ।
 
२. तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् ।
 
३. मृढे परिव्राजिके, मां जाग्रतीमपि सुतामिव करोषि ।
 
४. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्यः । दिष्टया कोपव्याजेन
देव्या परित्रातो भवान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति ।
 
देशस्यान्याय्यं प्रकाशनम् । तेन हि द्वावप्युपदेशं भगवयै दर्शयतम् ॥ मूढे परित्रा-
जिके, मां जाग्रतीमपि सुप्तामिव करोषि ॥ अनिमित्तमित्यादि स्पष्टोऽर्थः ॥
ननु सकारणमेव आत्मनः पक्षो रक्षितव्यः । दिष्ट्या कोपव्याजेन देव्या परित्रातो भ
वान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । अत्र देवीकोपेन वस्तुवि-
च्छेदे प्राप्ते विदूषक कृतं प्रोत्साहनमुत्तराङ्कोपयोगित्वेनाविच्छेदकारणत्वाद्विन्दुरित्यनु-