2026-02-12 06:55:09 by ambuda-bot

This page has not been fully proofread.

प्रथमोऽङ्कः ।
 
१९
 
देवी - जदा उण मन्दमेधा सिस्सा उवदेसं मलिणेन्ति, तदा
आअरिअस्स दोसो णु ।
 
राजा - देवि, एवमापठ्यते । विनेतुरद्रव्यपरिग्रहोऽपि बुद्धि-
लाघवं प्रकाशयतीति ।
 
देवी - (स्वगतम् ) कैहं दाणिं (गणदासं विलोक्य प्रकाशम् । ) --
अलं अज्जउत्तस्स ऊसाहकारणं मणोरहं पूरिअ । विरम णिरत्थ-
आदो आरम्भादो ।
 
विदूषकः - सुडु भोदी भणादि । भो गणदास, संगीदपदं
लम्भिअ सरस्सईए उवाअणमोद आणं खादमाणस्स किं ते सुहणि-
गण विवादेण ।
 
गणदासः– सत्यसमयमेवार्थो देवीवाक्यस्य । श्रूयतामवसरप्रा-
मिदानीम् ।
 
लब्धास्पदोऽस्मीति विवादभीरो-
 
स्तितिक्षमाणस्य परेण निन्दाम् ।
 
यस्यागमः केवलजीविकायै
 
तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥
 
९. यदा पुनर्मन्द मेधाः शिष्या उपदेशं मलिनयन्ति, तदाचार्यस्य
दोषो नु ।
 
२. कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा ।
वेरम निरर्थकादारम्भात् ।
 
३. सुष्ठु भवती भणति । भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपाय-
मोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ।
 
क्तर्नाम संध्यङ्गमुक्तं भवति ॥ यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति, तदा-
आर्यस्य दोषो नु । नुः प्रश्ने॥ कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं
रयित्वा विरम निरर्थकादारम्भात् ॥ सुष्ठु भवती भणति । भो गणदास, संगीतपदं
लब्ध्वा सरखत्युपायनमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ॥ लब्धा-
पदोऽस्मीत्यादि । स्पष्टोऽर्थः ॥ अचिरोपनीतायां शिष्यायां पुनःप्रतिष्टितस्योप-