2026-02-12 06:55:09 by ambuda-bot

This page has not been fully proofread.

१८
 
मालविकाग्निमित्रे
 
देवी - 'णं कलहप्पिओसि ।
 
विदूषकः – म एवं । अण्णोष्णकलहप्पिआणं मत्तहत्थीणं
एक्कदरस्सि अणिज्जिदे कुदो उवसमो ।
 
राजा - ननु खाङ्गसौष्ठवातिशयमुभयोर्दृष्टवती भगवती ।
परिव्राजिका - अथ किम् ।
 
राजा - तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् ।
 
परिव्राजिका — तदेव वक्तकामास्मि ।
 
-
 
लिष्टा क्रिया कस्यचिदात्मसंस्था
संक्रान्तिरन्यस्य विशेषयुक्ता ।
 
यस्योभयं साधु स शिक्षकाणां
 
धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥
 
विदूषकः - सुदं अज्जेहिं भअवदीए वअणं । एसो पिण्डितत्थो
 
उवदे सदसणादो णिण्णओति ।
 
हरदत्तः - परमभिमतं नः ।
 
गणदासः -- देवि, एवं स्थितम् ।
 
१. ननु कलहप्रियोऽसि ।
 
२. मैवम् । अन्योन्यकलहप्रिय योम त्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत-
 
उपशमः ।
 
३. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्डितार्थ उपदेशदर्शना-
निर्णय इति ।
 
पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ॥ ननु कलहप्रियोऽसि ॥ मैवम् । अ-
न्योन्य कलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः ॥ श्लिष्टेत्यादि ।
कस्यचित्कस्यापि पुरुषस्यापि क्रिया शिक्षा । विद्याभ्यास इत्यर्थः । आत्मसंस्था आ-
त्मनिष्टा सती श्लिष्टा संगता । रम्या भवतीत्यर्थः । अन्यस्य पुरुषस्य संक्रान्तिः शिष्येषु
क्रियासंक्रमणम् । संक्रान्तिशब्दोऽत्रान्तभीवितण्यर्थः । विशेषयुक्तातिशयवती । यस्य
पुरुषस्योभयम्, आत्मसिद्धिः पर संक्रमणं च साधु रम्यं स पुरुष एव शिक्षकाणामुपदे-
शकानां धुर्य प्रतिष्ठापयितव्यः प्रतिष्टां प्रापयितव्यः । श्रुतमायाभ्यां भगवत्यावचनम्।
एष पिण्डितार्थ उपदेशदर्शनान्निर्णय इति । अत्र मालविका दर्शन संदेह निर्णयाद्यु-