2026-02-12 06:55:09 by ambuda-bot

This page has not been fully proofread.

परिव्राजिका-
 
प्रथमोऽङ्कः ।
 
महासारप्रसवयोः सदृशक्षमयोर्द्वयोः ।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥ १५ ॥
धारिणी – जेदु अज्जउत्तो ।
 
राजा — खागतं देव्यै । ( परिव्राजिकां विलोक्य) भगवति, क्रि-
यतामासनपरिग्रहः ।
 
( सर्व उपविशन्ति ।)
 
राजा—भगवति, अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञान -
संघर्षणोर्भगवत्या प्राश्निकपदमध्यासितव्यम् ।
 
परिव्राजिका - ( सस्मितम् ।) अलमुपालम्भेन । पत्तने सति ग्रामे
रत्नपरीक्षा ।
 
राजा - नैतदेवम् । पण्डितकौशिकी खलु भगवती । पक्षपाति-
नावहं देवी च ।
 
आचार्यौ — सम्यगाह देवः । मध्यस्था भगवती नौ गुणदोषतः
परिच्छेत्तुमर्हति ।
 
राजा - तेन हि प्रस्तूयतां विवादः ।
 
परिव्राजिका – देव, प्रयोगप्रधानं हि नाट्यशास्त्रम् । किमत्र
वाग्व्यवहारेण । कथं वा देवी मन्यते ।
 
देवी – जेइ मं पुच्छसि, एदाणं विवादो एव ण मे रोअदि ।
गणदासः - देव, न मां समानविद्यया परिभवनीयमवगन्तुमर्हसि ।
विदूषकः - मोदि, पेक्खामो उरब्भसंवादं । किं मुहा वेअ-
 
१. जयत्वार्यपुत्रः ।
 
२. यदि मां पृच्छसि एतेषां विवाद एव न मे रोचते
 
३. भवति, पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ।
 
'नीयम् ॥ महासारेत्यादि । महासारप्रसवयोः । महान्सारो वरः प्रसवः संतानं
ययोस्ते तयोः । सदृशक्षमयोः । सदृशी समाना क्षमा सहिष्णुत्वं ययोस्ते तयोः । शेषं
स्पष्टम् ॥ जयत्वार्यपुत्रः ॥ यदि मां पृच्छसि, एतयोर्विवाद एव न मे रोचते ॥ भवति,