2026-02-12 06:55:09 by ambuda-bot
This page has not been fully proofread.
१६
मालविकाग्निमित्रे
धारिणी – जैइवि एवं अपरिग्गहो से पहाणत्तणं उवहरइ ।
परिव्राजिका - अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु
भवती । पश्य ।
अतिमात्र भासुरत्वं पुष्यति भानोः परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ १३ ॥
विदूषकः —– अइ, उअडिदा देवी पीठमद्दिअं पण्डि अकोसिईं
-
पुरोकरिअ धारिणी ।
राजा - पश्याम्येनाम् । यैषा
मङ्गलालंकृता भाति कौशिक्या यतिवेषया ।
त्रयीविग्रहवत्येव सममध्यात्मविद्यया ॥ १४ ॥
परिव्राजिका – (उपेय) विजयतां देवः ।
राजा - भगवति, अभिवादये ।
९. यद्यप्येवं राजपरियोज्य प्रधानत्वमुपहरति ।
२. अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिक पुरस्कृत्य
धारिणी ।
›
त्यादि । अत्र परिव्राजिकायाः स्त्रीलात्प्राकृते प्राप्ते संस्कृताश्रयणं लिङ्गित्वादिति
मन्तव्यम् । तथा चोक्तम् — 'देवद्विजनरेन्द्राणां लिङ्गिनां संस्कृतं वचः' इति ॥
यद्यप्येवं राजपरिग्रहोऽस्य हरदत्तस्य प्रधानत्वमुपहरति ॥ अतिमात्रभासुरत्व-
मित्यादि । स्पष्टोऽर्थः ॥ अयि उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुर
स्कृत्य धारिणी। पीठमर्दो नाम काम पुरुषार्थ सहायो नायकसमीपवर्ती पुरुषः कथ्यते ।
तथा चोक्तम् —' पीठमर्दः समीपस्थः कार्यालोचनकोविदः' इति । अत्र विदूषकः परि-
हासेन परिव्राजिकायां पण्डितकौशिक्यां तद्धर्भमारोपयतीति मन्तव्यम् ॥ मङ्गले-
त्यादि । मङ्गलालंकृता मङ्गलं शोभनं यथा भवति तथालंकृता भूषितैषा धारिणी
यतिवेषया यतेः परिव्राजकस्य वेप इव वेषः काषायादिधारणं यस्याः सा तथोक्ता
तया कौशिक्या समं सार्धं भाति प्रकाशते । अत्रोपमामाह - विग्रहवत्या शरी-
रियाध्यात्मविद्यया समं त्रयीव वेदत्रयीव । विग्रह्नतीव विभक्तिविपरिणामेन योज-