2026-02-12 06:55:09 by ambuda-bot

This page has not been fully proofread.

राजा - बाढ जान । ततः किम् ।
 
गणदासः— सोऽहममुना हरदतेन प्रधानपुरुषसमक्षमयं मे न
दरजसापि तुल्य इत्यधिक्षिप्तः ।
 
हरदत्तः — देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल
म च समुद्रपल्वलयोरिवान्तरमिति । तदत्रभवानिमं मां च शास्त्रे
योगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकः ।
विदूषकः समत्थं पइण्णादं ।
 
गणदासः - प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति ।
राजा - तिष्ठ यावत् । पक्षपातमत्र देवी मन्यते । तदस्याः
ण्डितकौशिकीसहितायाः समक्षमेव न्याय्यो व्यवहारः ।
विदूषकः – सुट्टु भवं भणादि ।
 
आचार्य — यद्देवाय रोचते ।
 
राजा - मौद्गल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्ध-
हूयतां देवी ।
 
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्क्रम्य सपरिव्राजिकया
व्या सह प्रविष्टः । ) इत इतो भवती ।
 
-
 
धारिणी – (परिव्राजिकां विलोक्य) मैअवदि, हरदत्तस्स गण-
सस्स अ संरम्भे कहं पेक्खसि ।
 
परिव्राजिका – अलं खपक्षावसादशङ्कया । न परिहीयते प्रति-
दिनो गणदासः ।
 
१. समर्थ प्रतिज्ञातम् ।
 
२. सुष्ठु भवान्भणति ।
 
३. भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि ।
 
यादि । तीर्थाद्विशिष्टाद्गुरोरभिनयविद्या नाट्यविद्या शिक्षिताभ्यस्ता । दत्तप्रयो-
वास्मि । दत्तः शिष्येभ्यः प्रतिपादितः प्रयोगो विनियोगो येन स तथोक्तः ॥
मर्थं प्रतिज्ञातम् ॥ प्रथमः कल्पो मुख्यः पक्षः ॥ न्याय्यो युक्तः । व्यवहारो वि-
दः॥ सुष्ठु भवान्भणति ॥ भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि
थं मन्यसे । अनयोः कतरस्य पराजयं विचारयसीत्यर्थः ॥ अलं स्वपक्षे-