2026-02-12 06:54:43 by ambuda-bot
This page has not been fully proofread.
-
राजा प्रवेशय ।
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्क्रम्य ताभ्यां सह प्रविष्टः । )
इत इतो भवन्तौ ।
गणदासः - (राजानं विलोक्य ) अहो दुरासदो राजमहिमा ।
न च न परिचितो न चाप्यरम्य-
श्चकितमुपैमि तथापि पार्श्वमस्य ।
सलिलनिधिरिव प्रतिक्षणं मे
भवति स एव नवो नवोऽयमक्ष्णोः ॥ ११ ॥
हरदत्तः—महत्खलु पुरुषाकारमिदं ज्योतिः । तथा हि ।
द्वारे नियुक्तपुरुषाभिमतप्रवेशः
सिंहासनान्तिकचरेण सहोपसर्पन् ।
तेजोभिरस्य विनिवर्तितदृष्टिपातै-
र्वाक्यादृते पुनरिव प्रतिवारितोऽस्मि ॥ १२ ॥
कञ्चुकी – एष देवः । उपसर्पतां भवन्तौ ।
-
उभौ - ( उपेत्य ) विजयतां देवः ।
राजा - खागतं भवद्भ्याम् ( परिजनं विलोक्य 1 ) आसने तावदत्र-
भवतोः ।
(उभौ परिजनोपनी तयोरासनयोरुप विष्टौ ।)
राजा - किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोप-
स्थानम् ।
-
गणदासः —— देव, श्रूयताम् । तीर्थादभिनयविद्या शिक्षिता । दत्त-
प्रयोगश्चास्मि देवेन देव्या च परिगृहीतः ।
न च न परिचित इत्यादि । अयं राजा परिचितः संस्तुतश्च न भवतीति न, किं
तु परिचित एव । अरम्योऽसौम्यश्च न किं तु रम्य एव । तथापि चकितं सभयं यथा
भवति तथास्य पार्श्वे समीपमुपैमि । शेषं सम्॥ द्वारे नियुक्तेत्यादि । विनिवर्ति-
तदृष्टिपातैर्विनिवारितदृष्टिप्रसारैरस्य राज्ञस्तेजोभिः पुनः प्रकाश विशेषैस्तु वाक्या-
ते प्रतिषेधवाक्यं विना प्रतिवारित इव निरुद्ध इवास्मि ॥ तीर्थादभिनय विद्ये