2026-02-12 06:54:54 by ambuda-bot

This page has not been fully proofread.

राजा - कथमिव ।
 
प्रथमोऽङ्कः ।
 
( विदूषकः - ( क ) एवमिव ।
 
राजा - साधु वयस्य; निपुणमुपक्रान्तम् । इदानीं दुरधिगम -
सिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे । कुतः ।
 
अर्थ प्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
 
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ९॥
(नेपथ्ये ।)
 
अलं बहु विकत्थ्य । राज्ञः समक्षमेवावयोरधरोत्तरयोर्व्यक्ति-
भविष्यति ।
 
राजा - (आक) सखे, त्वत्सुनीतिपादपस्य पुष्पमुद्भिन्नम् ।
विदूषकः - फैलं वि अइरेण दक्खिस्ससि ।
 
(ततः प्रविशति कचुकी ।)
 
कञ्चुकी – देव, अमात्यो विज्ञापति अनुष्ठिता प्रभोराज्ञेति ।
एतौ पुनर्हरदत्तगणदासौ
 
उभावभिनयाचार्यौ परस्परजयैषिणौ ।
 
त्वां द्रष्टुमुद्यतौ साक्षाद्भावाविव शरीरिणौ ॥ १० ॥
 
९. एवमिव ।
 
२. फलमप्यचिरेण द्रक्ष्यसि ।
 
नियतस्य व्यापारान्तरभेद्यस्य गुह्यतरार्थस्य प्रयोगे कविना प्रयुक्तम् । तथोक्तम् —
'कर्णे एवमिवेत्युक्ला ज्ञाप्यः पश्चात्प्रसङ्गतः' इति ॥ इदानीमित्यादि । अस्मि-
नारम्भे मालविकासाक्षाद्दर्शनोद्योगे दुरधिगमसिद्धावपि दुर्लभ सिद्धौ सत्यपीदानीं
त्वद्वचनश्रवणानन्तरं वयमाशंसामहे सिद्धिमपेक्षामहे ॥ अर्थमित्यादि । सप्रति-
वन्धं सप्रतिरोधमर्थं प्रयोजनमधिगन्तुं लब्धुं सहायवानेव जनः प्रभुः समर्थो भ
वति । 'इदानीम्' इत्यादिना 'सहायवानेव' इत्यन्तेन तस्य वीजस्य बहुलीकरणात्परि-
कर इति संध्यङ्गमुक्तं भवति ॥ नेपथ्य इत्यादि । बहु विकत्थ्यात्मश्लाघां कृत्वालम् ।
अलमिति प्रतिषेधे । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः ॥ फल-
मप्यचिरेण द्रक्ष्यसि । अत्र बीजस्य दृढीकरणात्परिन्यासो नाम संध्यङ्गमुक्तं भवति ॥
उभावित्यादि । शरीरिणौ मूर्ती साक्षाद्भावौ प्रत्यक्षभावाविव नृत्याभिनयार्थाविव॥
 
माल० २