2026-02-12 06:54:54 by ambuda-bot
This page has not been fully proofread.
१२
मालविकाग्निमित्रे
अमात्यः - तथा (इति निष्क्रान्तः । )
( परिजनो यथाव्यापारं राजानमभितः स्थितः । )
( प्रविश्य । )
विदूषकः – आणतोहि तत्तभवदा रण्णा । गोदम, चिन्ते
दाव उवाअं । जहा मे जदिच्छा दिट्ठपदिकिदी मालविआ पच्छक्ख
दंसणा होदिति । मए अ तत्तहा किदं । दाव से णिवेदेमि । ( इति
परिक्रामति ।)
राजा - ( विदूषकं दृष्ट्वा । ) अयमपरः
नुपस्थितः ।
विदूषकः - ( उपगम्य । ) वैदु भवं ।
राजा - ( सशिरःकम्पम् ।) इत आस्यताम् ।
( विदूषक उपविष्टः । )
कार्यान्तरसचिवोऽस्मा
राजा - अपि किंचिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः ।
विदूषकः असिद्धिं पुच्छ ।
-
१. आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय तावदुपायम् ।
यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया च
तत्तथा कृतम् । तावद्स्मै निवेदयामि ।
२. वर्धतां भवान् ।
३. प्रयोगसिद्धिं पृच्छ ।
हि सत्यमेव । भविष्यतीति शेषः । हिशब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः ।
इदमेव वैदर्भस्य कार्यविनिमयरूपमेव वचनं वाक्यं निमित्तं हेतुमुपादायावलम्ब्य
समुद्योज्यतां प्रत्यावर्त्यताम् ॥ आज्ञप्तोऽस्मि तत्रभवता राज्ञा । गौतम, चिन्तय ता
वदुपायम् । यथा मे यदृच्छादृष्ट प्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति । मया
च तत्तथा कृतम् । तावदस्मै निवेदयामि । अत्र गम्यमानं राज्ञो मालक विकादर्शनौ-
त्सुक्यमारम्भो नाम प्रथमावस्थेति मन्तव्यम् । अत्र बीजारम्भयोः समन्वयान्मुख-
संधिरित्यनुसंधेयम्॥वर्वतां भवान् ॥ उपेयोपाय दर्शने उपेयस्य साध्यस्य मालविका -
साक्षाद्दर्शनस्योपायदर्शने साधनज्ञाने ते प्रज्ञाचक्षुः प्रतिभादृष्टिः किंचिदीषदपि व्या-
पृतं प्रसृतम् । अपिः प्रश्न । अत्र गम्यमानस्य मालविकारूपस्य बीजस्य विन्यासा -
दुपक्षेपो नाम संध्यङ्गमुक्तं भवति ॥ प्रयोगसिद्धिं पृच्छ ॥ कर्णे । एवमिव । एतद्वचनं