2026-02-12 06:56:48 by ambuda-bot

This page has not been fully proofread.

१०८
 
मालविकाग्निमित्रे
 
( भरतवाक्यम् ।)
 
आशास्यमभ्यधिगमात्प्रभृति प्रजानां
 
संपद्यते न खलु गोप्तरि नाग्निमित्रे ॥ २० ॥
 
( इति निष्क्रान्ताः सर्वे । )
 
इति श्रीकालिदासस्यकृतौ मालविकाग्निमित्रे पञ्चमोऽङ्कः ।
 
क्यम् । आशास्यमित्यादि । प्रजानां जनानामभ्यधिगमात् संप्राप्तेः । परिग्रहा-
दित्यर्थः । तस्मात्प्रभृत्यारम्याग्निमित्रेऽस्मिन्नाय के गोप्तरि रक्षके सति तासांप्रजाना-
माशास्यमपेक्ष्यवस्तु न संपद्यत इति न न संभवतीति न संभवत्येवेत्यर्थः । अनेन
आशास्य सिद्धिकथनरूपेण शुभशंसनात्प्रशस्तिर्नाम संध्यङ्गमुक्तं भवति । यदुक्तं -
'प्रशस्तिः शुभशंसनम्' इति । सर्वनाटकप्रयोगान्ते भरतेन सर्वकालसाधारणे आ
शीर्वचने कर्तव्ये सति अत्र प्रजानामाशास्यसिद्धिं प्रति गोतुरग्निमित्रस्य कथनं तत्का-
लराजोपलक्षणमिति मन्तव्यम् ॥ इति श्रीकाट्यवेमभूपविरचिते कुमा-
गिरिराजीये मालविकाग्निमित्रव्याख्याने पञ्चमोऽङ्कः ।
 
श्रीमत्काटयमस्य कृतिविज्ञानशालिनः ।
कुमारगिरिराजीया जीयादाचन्द्रतारकम् ॥