2026-02-12 06:56:48 by ambuda-bot

This page has not been fully proofread.

पञ्चमोऽङ्कः ।
 
१०७
 
रादिकमेण तदा भट्टिणी अवरद्धा, तं सअं एव भत्तणो आणुऊलं
णाम मए आअरिदं । संपदं पुण्णमणोरहेण भत्तणा पसादमेत्तेण
संभावइदवति ।
 
देवी - णिउणिए, अवस्सं से सेविदं अज्जउत्तो जाणिस्सदि ।
निपुणिका – अणुगहीदह्नि ।
 
-
 
परिवाजिका — देव, अमुना युक्तसंबन्धेन चरितार्थ माधवसेनं
सभाजयितुं गच्छामः ।
 
देवी - अवदीए ण जुत्तं अले परिचइदं ।
 
राजा - भगवति, मदीयेष्वेव लेखेषु तत्रभवतस्त्वामुदिश्य स-
भाजनाक्षराणि पातयिष्यामः ।
 
परिवाजिका - युवयोः स्नेहात्परवानयं जनः ।
देवी - अज्जउत्त, किं ते भूओ पिअं उवहरामि ।
 
राजा-
 
त्वं मे प्रसादमुमुखी भव देवि नित्य-
मेतावदेव हृदये प्रतिपालनीयम् ।
 
१. निपुणिके, अवश्यमस्याः सेवितमार्यपुत्रो ज्ञास्यति ।
२. अनुगृहीतास्मि ।
 
३. भगवत्या न युक्तमस्मान्परित्यक्तुम् ।
 
४. आर्यपुत्र, किं ते भूयः प्रियमुपहरामि ।
 
मेण तदा भर्त्रे अपराद्धा,तत्स्वयमेव भर्तुरनुकूलं नाम ममाचरितम् । सांप्रतं पूर्ण-
मनोरथेन भर्त्रा प्रसादमात्रेण संभावयितव्येति ॥ निपुणिके, अवश्यमस्याः सेवितमा-
र्यपुत्रो ज्ञास्यति ॥ अनुगृहीतास्मि ॥ भगवत्या न युक्तमस्मान्परित्यक्तुम् ॥ आर्यपुत्र,
किं ते भूयः प्रियमुपहरामि ॥ त्वं मे प्रसादेत्यादि । हे देवि त्वं मे मम
नित्यं सर्वदा प्रसादमुमुखी प्रसादेन प्रसन्नतया शोभनं मुखं यस्यास्तथोक्ता भव
भूयाः । एतावदेवेदमेव हृदये मनसि प्रतिपालनीयमपेक्षणीयम् । इतःपरं भरतवा -