2026-02-12 06:56:48 by ambuda-bot

This page has not been fully proofread.

१०४
 
मालविकाग्निमित्रे
 
प्रतीहारी - 'जं देवी आणवेदि । ( इति निष्क्रम्य पुनः प्रविश्य ।)
भट्टिणि, पुत्तविज अणिमिचेण परितोसेण अन्तेउराणं आहरणाणं म-
सिंत्ता ।
 
देवी - ऐदं किं अच्चरिअं । साहारणो खु ताणं मह अ अअं
अभुदओ ।
 
-
 
प्रतीहारी — (जनान्तिकम् ।) भट्टिणि, इरावदी उण विष्णवेदि ।
सरिसं देवीए पहवन्तीए । तुह वअणं संकप्पिदं ण जुज्जदि अ-
हा का ति ।
 
देवी - अत्रदि, तुए अणुमदा इच्छामि अज्जसुमदिणा पढमसं-
कप्पिदं मालविअं अज्जउत्तस्स पडिवादेदं ।
 
परिव्राजिका - इदानीमपि त्वमेवास्याः प्रभवसि ।
 
देवी – (मालविकां हस्ते गृहीत्वा ) इदं अज्जउत्तो पिअणिवेदणाणु-
रूवं पारितोसिअं पडिच्छदु ।
 
( राजा व्रीडां नाटयति । )
 
९. यद्देव्याज्ञापयति । भट्टिणि, पुत्रविजयनिमित्तेन परितोषेणान्तः पु-
राणामाभरणानां मञ्जूषास्मि संवृत्ता ।
 
२. एतत्किमाश्चर्यम् । साधारणः खलु तासां मम चायमभ्युदयः ।
३. भट्टिनि, इरावती पुनर्विज्ञापयति । सदृशं देव्याः प्रभवन्त्याः । तव
वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति ।
 
४. भगवति, त्वयानुमतेच्छाम्यार्यसुमतिना प्रथम संकल्पितां मालवि-
कामार्यपुत्राय प्रतिपादयितुम् ।
 
५. इमार्यपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु ।
 
रावतीमनुनय । त्वयाहं सत्यान्न विभ्रंशयितव्येति ॥ यद्देव्याज्ञापयति । भट्टिनि, पुत्र-
विजयनिमित्तेन परितोषेणान्तःपुराणामाभरणानां मञ्जूषास्मि संवृता ॥ एतत्किमाश्च-
र्यम् । साधारणः खलु तासां मम चायमभ्युदयः ॥ भट्टिनि इरावती पुनर्विज्ञापयति ।
सदृशं देव्याः प्रभवन्त्याः।तव वचनं संकल्पितं न युज्यतेऽन्यथाकर्तुमिति॥ भगवति,
वयानुमतेच्छाम्यार्य सुमतिना प्रथम संकल्पितां मालविकामार्यपुत्राय प्रतिपादयितु-
म्॥ इदमार्यपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु । अत्र प्रीत्युत्पादनात्प्र-