2026-02-12 06:56:48 by ambuda-bot

This page has not been fully proofread.

पञ्चमोऽङ्कः ।
 
१०३
 
कञ्चुकी – देव, अयं कुमारः
नैतावता वीरविजृम्भितेन
 
चित्तस्य नो विस्मयमादधाति ।
यस्याप्रधृष्यः प्रभवस्त्वमुचै-
 
रग्नेरपां दग्धुरिवोरुजम्ना ॥ १७ ॥
 
राजा - मौद्गल्य, यज्ञसेनश्यालमूरीकृत्य मोच्यन्तां सर्वे बन्ध-
 
नस्थाः ।
 
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्कान्तः ।)
 
देवी - जयसेणे, गच्छ । इरावदिप्पमुहाणं अन्तेपुराणं पुचस्स
 
वुत्तन्तं णिवेदेहि ।
 
देवी — ऐहि दाव
 

 
( प्रतीहारी प्रस्थिता । )
 
प्रतीहारी - ( परिवृत्य ) अ ह्नि ।
 
देवी - (जनान्तिकम् ।) जं मए असोअदोहएणिओए मालवि-
आए पइण्णादं, तं से अदिजणं च णिवेदिअ मह वअणेण इरा-
यदि अणुहि । तुए अह सच्चादो णविन्भंसिदवेत्ति ।
 
१. जयसेने, गच्छ । इरावतीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य वृत्तान्तं
निवेदय ।
 
२. एहि तावत् ।
 
३. इयमस्मि ।
 
४. यन्मयाशोकदोहद नियोगे मालविकायै प्रतिज्ञातम्, तदस्या अभि-
जनं च निवेद्य मम वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न विभ्रंशयितव्येति ।
 
यत्पितरमनुजातो मे वत्सकः ॥ नैतावतेति । स्पष्टोऽर्थः ॥ जयसेने, गच्छ । इराव-
तीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य वृत्तान्तं निवेदय ॥ एहि तावत् ॥ इयमस्मि ॥ यन्मया-
शोकदोहदनियोगे मालविकायै प्रतिज्ञातम् ॥ तदस्या अभिजनं च निवेद्य मम वचनेने-