2026-02-12 06:56:46 by ambuda-bot

This page has not been fully proofread.

१०२
 
मालविकाग्निमित्रे
 
राजा - (उपविश्य लेखं सोपचारं गृहीत्वा वाचयति । खस्ति । यज्ञ-
शरणात्सेनापतिः पुष्पमित्रो वैदिशस्तत्रत्यमायुष्मन्तमग्निमित्रं स्नेहा-
त्परिष्वज्येदमनुदर्शयति । विदितमस्तु । योऽसौ राजयज्ञदीक्षितेन
मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य वत्सरोपात्त नियमो
निरर्गलस्तुरंगो विसृष्टः, स सिन्धोर्दक्षिणरोधसि चरन्नश्वानीकेन यव-
न प्रार्थितः । तत उभयोः सेनयोर्महानासीत्संमर्दः ।
 
( देवी विषादं नाटयति ।)
 
राजा - कथमीदृशं संवृत्तम् । ( शेषं पुनर्वाचयति ।)
ततः पराम्पराजित्य वसुमित्रेण धन्विना ।
 
प्र हियमाणो मे वाजिराजो निवर्तितः ॥ १५॥
 
देवी - इमिणा आससिदं मे हिअअं ।
 
राजा - ( शेषं पुनर्वाचयति ।) सोऽहमिदानीमंशुमता सगरपुत्रेणेव
प्रत्याहृताश्व यये । तदिदानीमकालहीनं विगतरोषचेतसा भवता
वधूजनेन सह यज्ञसेवनायागन्तव्यमिति ।
 
राजा - अनुगृहीतोऽस्मि ।
 
परिव्राजिका - दिष्या पुत्र विजयेन दम्पती वर्तेते ।
भर्त्रास वीरपत्नीनां लाध्यानां स्थापिता धुरि ।
 
वीरसूरिति शब्दोऽयं तनयात्त्वामुपस्थितः ॥ १६ ॥
देवी भअवदि, परितुट्टसि । जं पिदरं अणुजादो मे वच्छओ ।
राजा - मौद्गल्य, ननु कलभेन यूथपतिरनुकृतः ।
 
१. अनेनाश्वस्तं मे हृदयम् ।
 
२. भगवति, परितुष्टास्मि । यत्पितरमनुजातो मे वत्सकः ।
 
यज्ञो नामाश्वमेधः । राजपुत्रशतपरिवृतं राजपुत्राणां शतेन परिवेष्टितम् । तथा च
श्रुतावश्वमेघप्रकरणे 'शतेन राजपुत्रैः सह' इति ॥ ततः परा नित्यादि । स्पष्टोऽर्थः ॥
अनेनाश्वस्तं मे हृदयम् ॥ भर्त्रासीत्यादि । स्पष्टोऽर्थः ॥ भगवति, परितुष्टास्मि ।