2026-02-12 06:56:46 by ambuda-bot

This page has not been fully proofread.

१००
 
मालविकाग्निमित्रे
 
देवी - किं' विअ तं कारणम् ।
 
परिव्राजिका - इयं पितरि जीवति केनापि देवयात्रागतेन
सिद्धादेशकेन साधुना मत्समक्षं समादिष्टा । संवत्सरमात्रमियं प्रेष्य-
भावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति । तदेवंभाविनमादे-
शमस्यास्त्वत्पाद शुश्रूपया परिणमन्तमवेक्ष्य कालप्रतीक्षया मया
साधु कृतमिति पश्यामि ।
 
राजा - युक्ता प्रतीक्षा ।
 
कञ्चुकी – देव, कथान्तरेणान्तरितम् । अमात्यो विज्ञापयति ।
विदर्भगतमनुष्ठेयमनुष्ठितमभूत् । देवस्य तावदभिप्रायं श्रोतुमिच्छा-
 
मीति ।
 
राजा - मौद्गल्य, तत्रभवतोर्यज्ञसेनमाघवसेनयोर्द्वैराज्यमिदानीम-
वस्थापयितुकामोऽस्मि ।
 
तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे ।
 
नक्तंदिवं विभज्योभौ शीतोष्णकिरणाविव ॥ १३ ॥
कञ्चुकी – देव, एवममात्यपरिपदे निवेदयामि ।
 
(राजाङ्गुल्यानुमन्यते ।)
 
(निष्क्रान्तः कचुकी । )
 
प्रथमा – (जनान्तिकम् ।) भेट्टदारिए, दिट्टिआ भट्टिणा भट्टदारओ
अद्धरज्जे पट्टिं गमइस्सदि ।
 
१. किमिव तत्कारणम् ।
 
२. भर्तृदारिके, दिष्टया भर्त्रा भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमयिष्यते ।
 
वा' इत्यमरसिंहः । स्नानीयवस्त्रक्रियया स्नानीयवस्त्रकरणेन ॥भगवति, त्वयाभिजनवतीं
मालविकामनाचक्षाणया सांप्रतमयुक्तं कृतम् ॥ किमिव तत्कारणम् ॥ तौ पृथगि
त्यादि । तौ यज्ञसेनमाधवसेनौ पृथक्पार्थक्येनोत्तरदक्षिणे वरदाकूले । वरदा नाम
तत्रत्या नदी तस्याः कूले उमे तीरे शिष्टां रक्षताम् ॥ भर्तृदारिके, दिष्ट्या भर्त्रा