Malavikagnimitra /103
This page has not been fully proofread.
पञ्चमोऽङ्कः ।
द्वितीया - अहो खु भट्टिदारिआए इअं समवत्था संबुता ।
(परिव्राजिका बापं विसृजति । )
९९
राजा - भगवति, तनुत्यजामीदृशी लोकयात्रा । न शोच्यं तत्र-
भवान्सफलीकृतभर्तृपिण्डः । ततस्ततः ।
परिव्राजिका - ततोऽहं मोहमुपगता यावत्संज्ञां लभे, ताव -
दियं दुर्लभदर्शना संप्रवृत्ता ।
राजा - महत्खलु कृच्छ्रमनुभूतं भगवत्या ।
परिव्राजिका - ततो भ्रातृशरीरमन्निसात्कृत्वा पुनर्नवीभूत वैध-
व्यदुःखया मया त्वदीयदेशमवतीर्य इमे काषाये गृहीते ।
राजा - युक्तः सज्जनस्यैष पन्थाः । ततस्ततः
परिव्राजिका — सेयमाटविकेभ्यो वीरसेनं वीरसेनाच्च देवीं
गता देवीगृहे लब्धप्रवेशया दृष्टेत्येतदवसानं कथायाः ।
मालविका - किं णु खु संपदं भट्टा भणादि ।
राजा - अहो परिभवो पहारिणो विनिपाताः । कुतः ।
प्रेयभावेन नामेयं देवशब्दक्षमा सति ।
स्नानीयवस्त्रक्रियया पत्रोर्ण वोपयुज्यते ॥ १२ ॥
देवी - भै अवदि, तुए अभिजणवदिं मालविअं अणाचक्खन्तिए
असंपदं किदम् ।
परिव्राजिका - शान्तं पापम् । केन च कारणेन मया नैर्धृ-
यमवलम्बितम् ।
१. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता ।
२. किं नु खलु सांप्रतं भर्ता भणति ।
३. भगवति, त्वयाभिजनवतीं मालविकामनाचक्षाणयासांप्रतं कृतम् ।
काया इयं समवस्था संवृत्ता ॥ किं नु खलु सांप्रतं भर्ता भणति ॥ प्रेष्यभावेने-
त्यादि । देवीशब्दक्षमा देवीशब्दयोग्या सतीयं मालविका प्रेष्यभावेन परिचारक-
त्वेन उपयुज्यते किल।पत्रोर्णं वा धौतकौशेयमिव । वेत्युपमायाम् ।'उपमायां विकल्पे