2026-02-12 06:56:46 by ambuda-bot

This page has not been fully proofread.

९८
 
मालविकाग्निमित्रे
 
परिव्राजिका - स चाटव्यन्तरे निविष्टो गताध्वा वणिग्जनः ।
 
राजा - किं चान्यत् ।
 
परिव्राजिका - ततः
 
तूणीरपट्टपरिबद्धभुजान्तराल-
 
मापाणिलम्बिशिखिपिच्छकलापधारि ।
 
कोदण्डपाणि विनदत्प्रतिरोधकाना-
 
मापातदुष्प्रसह मा विरभूदनीकम् ॥ १० ॥
( मालविका भयं रूपयति । )
 
विदूषकः- - मोदि मा भआहि । अदिक्कतं खु तत्तहोदी क-
 
हेदि ।
 
राजा - ततस्ततः ।
 
"
 
परिव्राजिका - ततो मुहूर्तं बद्धायुधास्ते पराङ्मुखीभूताः सार्थ -
वाहयोद्धारस्तस्करैः ।
 
राजा - हन्त, इतः परं कष्टतरं श्रोतव्यम् ।
 
परिव्राजिका - ततः सुमतिः
 
इमां परीप्सुदुर्जाते पराभिभव कातराम् ।
 
भर्तृप्रियः प्रियैर्भर्तुरानृण्यमस्रुभिर्गतः ॥ ११ ॥
 
प्रथमा - अहो, हदो सुमदी ।
 
१. भवति, मा बिभेहि । अतिक्रान्तं खलु तत्रभवती कथयति ।
२. अहो, हतः सुमतिः ।
 
1
 
हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ॥ तूणीर पट्टेत्यादि । सोऽर्थः ॥
भवति, मा बिमेहि । अतिक्रान्तं खलु तत्रभवती कथयति ॥ इमामित्यादि ।
दुर्जात आपदि पराभिभवकातराम् । परेषां शत्रूणामभिभव आक्रमणं त-
स्मात्कातरां दुःखितामिमां मालविकां परीप्सुः पर्याप्तुं परित्रातुमिच्छुः । 'आ'ज्ञ-
प्यृधामीत्' इतीम् । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः 'पर्याप्तिः स्यात्परि-
त्राणं हस्तधारणमित्यपि' इत्यमरः । भर्तृप्रियः स्वामिभक्तः । प्रियैरिटैरसुभिः
प्राणैर्भर्तुरानृण्यमनृणत्वं गतः प्राप्तः ॥ अहो, हतः सुमतिः ॥ अतः खलु भर्तृदारि-