2026-02-12 06:56:45 by ambuda-bot

This page has not been fully proofread.

९६
 
मालविकाग्निमित्रे
 
उभे – (मालविकां दृष्ट्वा ।) अह्म भट्टदारिआ । ( इति प्रणम्य ।) जे-
दु जेदु भट्टदारिआ । ( तया सह बाष्पं विकिरतः । )
 
(सर्वे सविस्मयमवलोकयन्ति । )
 
राजा – के वा भवत्यौ । का वा इयम् ।
उभे भेट्टा, एसा अह्माणं भट्टदारिआ ।
राजा–कथमिव ।
 
उभे - सुणादु भट्टा । जोसो भट्टिणा विजअदण्डेहिं विदन्भ-
णाहं वसीकरिअ बन्धणादो मोइओ कुमारो माहवसेणो णाम, तस्स
इअं कणीअसी भइणी मालविआ णाम ।
 
देवी – कहं राअदारिआ इअं । चन्दणं खु मए पादुओवओ-
 
एण दूसिदं ।
 
राजा - अथात्रभवती कथमित्थंभूता ।
 
मालविका — (निःश्वस्य । आत्मगतम् ) विहिणिओएण ।
द्वितीया — अनुदाआदवसंगदे भट्टदारए माहवसेणे तस्स अम-
 
१. अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका ।
 
२. भर्तः, एषास्माकं भर्तृदारिका ।
 
३. शृणोतु भर्ती । यः स भर्त्रा विजयदण्डैर्विदर्भनार्थं वशीकृत्य
बन्धनान्मोचितः कुमारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी माल-
विका नाम ।
 
४. कथं राजदारिकेयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् ।
५. विधिनियोगेन ।
 
६. भर्तृदायादवशंगते भर्तृदार के माधवसेने तस्यामात्येनार्य सुमतिना-
स्मादृशं परिजनमुज्झित्वा गूढमानीतैषा ।
 
रोचते ॥अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका ॥ भर्तः, एषास्माकं भर्तृदारिका
शृणोतु भर्ता । यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कु-
मारो माधवसेनो नाम, तस्येयं कनीयसी भगिनी मालविका नाम ॥ कथं राजदारि •
केयम्। चन्दनं खलु मया पादुकोपयोगेन दूषितम् ॥ विधिनियोगेन ॥ भर्तृदायादव-