This page has been fully proofread once and needs a second look.

॥ अथ महाप्रस्थानपर्व ॥
 

 
MAHAPRASTHANA PARVA
 

 
श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत् ।

राज्यं परिददौ सर्वे वैश्यापुत्रे युधिष्ठिरः ।

अभिषिच्य स्वराज्ये च राजानं च परीक्षितम् ।

उत्सृज्याऽऽभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥
 

On hearing thus of the big slaughter of

the Vrishnis, Yudhisthira, the king of the

Kurus, entrusted the whole kingdom to

Yuyutsu, installed Parikshit as king in his

kingdom, removed the ornaments from his

body and took to bark-garments.
 

 
तथैव जगृहुस्सर्वे वल्कलानि [नराधिप] ।

हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति ॥